SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ खेचरमांसं चर्मवसाशोणितं त्रिधैतदपि विकृतिरिति योगः, तथा 'आद्यत्रयचलचलोद्ग्राहिमकानि च' म्रक्षण भृततवकपक्कानि त्रीण्येव घारिकावटकादीनि विकृतिरिति गाथार्थः ॥ ७५ ॥ 'शेषा णि' चतुर्थघानादारभ्य न भवन्ति विकृतयः, 'अयोगवाहिनां साधूनाम्' अविशेषतो निर्विकृतिकपरिभोक्तृणां तानि कल्पन्ते, न तत्र कश्चिद्दोषः, परिभुज्यन्ते न प्रायः तथाऽप्यनेन कारणेन, यत् निश्चयतो न ज्ञायन्ते कथमेतानि व्यवस्थितानि इति गाथार्थः ॥ ७६ ॥ एकेनैव तवकः पूर्यते पूपकेन यत् ततः -पूपकात् द्वितीयोऽपि निर्विकृतिकस्य कल्पते, असौ लेवाटको नवरमिति गाथार्थः ॥ ७७ ॥ विधिशेषमाह - दध्यवयवस्तु मस्तु विकृतिर्वर्त्तते, तक्रं न भवति विकृतिस्तु, क्षीरं तु निरवयवम्-एकमेव, नवनीतोग्राहिमके च निरवयवे इति गाथार्थः ॥ ७८ ॥ घृतघट्टः पुनर्विकृतिः, घृतघट्टो-महियाडुवं, विस्यन्दनं च केचि दिच्छन्ति विष्यन्दनं 'अद्धनिद्दहुघयमज्झछूढ तंदुल निष्फण्णं' तिलगुडयोरविकृतिः 'सुकुमारिकाखण्डादीनि सुकुमा रिका - सस्तितीया खण्डा आदिशब्दात् सक्कर मच्छंडियादीणित्ति गाथार्थः ॥ ७९ ॥ मद्यमधुनोर्न खोलमदने विकृती, तथा पुद्गले पिण्डो न विकृतिः, पिंडोत्ति कालिजं, रसकः पुनस्तदवयवो - मांसावयवः स पुनर्नियमाद् भवेद्विकृति - रिति गाथार्थः ॥ ८० ॥ प्रासङ्गिकमाह - | खज्जूरमुद्दियादाडिमाण पिल्लुच्छुचिंचमाईणं । पिंडरसय न विगइओ नियमा पुण होंति लेवकडा ॥ ३८१ ॥ खर्जूर मुद्रिकादाडिमानामिति, मृद्वीका - द्राक्षा, तथा पिलिक्षचिञ्चादीनामिति, चिंचाओ-अंबिलिकाओ, पिण्डर सौ न विकृती भवतः, नियमात्पुनर्भवतः लेपकृताविति - लेवडगत्ति गाथार्थः ॥ ८१ ॥ Jain Education International For Private & Personal Use Only खर्जूरमृद्वीकादयः गा. ३८१ w.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy