________________
Jain Educatio
अह होज निद्धमहुराई अप्पपरिकम्मसपरिकम्मेहिं । भोत्तूण नि महुरे फुसिअ करे मंच हाकडए ३५७ अथ भवेतां स्निग्धमधुरे-उक्तस्वरूपे अल्पपरिकर्म्मसपरिकर्म्मयोः पात्रयोः तथाऽप्ययं न्यायः, भुक्त्वा स्निग्धमधुरे पूर्वमेव तदनु स्पृष्ट्वा - करान्निर्लेपान् कृत्वा 'मुंचऽहागडए' त्ति प्रवर्त्तयेद् भोजनक्रियां प्रति यथाकृतानि संयमगौरवख्यापनार्थमेतदिति गाथार्थः ॥ ५७ ॥ भोजनग्रहणविधिमाह
कुक्कुडिअंडगमित्तं अहवा खुड्डागलंबणासिस्स ।
लंबले ( मित्तं ) गेहइ अविगिअवयणो उ रायणिओ ॥ ३५८ ॥
इह ग्रहणकाले कुक्कुट्यण्डकमात्रं कवलमिति गम्यते, अथवा क्षुल्लकलम्वनाशिनः पुंसः 'लम्बनमात्रं ' कवलमात्रं गृह्णाति 'अविकृतवदन एव' स्वभावस्थमुखो 'रत्नाधिको' ज्येष्ठार्योऽन्यभक्त्यर्थमिति गाथार्थः ॥ ५८ ॥ गहणे पक्खेवंमि अ सामायारी पुणो भवे दुविहा । गहणं पायंमि भवे वयणे पक्खेवणं होइ ॥ ३५९ ॥
ग्रहणे लम्बनकस्य प्रक्षेपे च वदने एतद्विषया सामाचारी, स्थितिरित्यर्थः, पुनर्भवति द्विविधा, ग्रहणं पात्रे भवेत्, | भाजनान्नान्यत्र इत्यर्थः, वदने प्रक्षेपो भवति, न तु गृहीत्वाऽन्यत्र पुनर्ल (र्भ) क्षणार्थमिति गाथार्थः ॥ ५९ ॥ ग्रहणविधिमाह - पयरगकडछेएणं भोत्तवं अहव सीहखइएणं । एगेणमणेगेहि अ वज्जित्ता धूमइंगालं ॥ ३६० ॥
tional
For Private & Personal Use Only
ग्रहण
विधिः
gwww.jainelibrary.org