________________
श्रीपञ्चव. प्रतिदिनक्रिया २
॥ ५९ ॥
ददति 'ततः' स्वाध्यायानन्तरं 'अनुशास्ति' स्वोपदेशलक्षणां 'संविग्ना' मोक्षाभिलाषिणः सन्तः आत्मनैव जीवस्य - आत्मन एव, किमित्यत्राह - 'रागद्वेषाभाव' मिति रागद्वेषाभावविषयं सम्यग्वादं मन्यमाना इति गाथार्थः ॥ ५३ ॥ अनुशास्तिमाहबायलीसेसणसंकडंमि गहणंमि जीव ! न हु छलिओ । इपिंह जह न छलिज्जसि भुंजंतो रागदोसेहिं ॥३५४॥ द्विचत्वारिंशदेषणासङ्कटे इति-आकुले गहने हे जीव ! भिक्षाटनं कुर्वन् नासि छलितः - न व्यंसितोऽसि, तदिदानीं यथा न छल्यसे भुञ्जानो रागद्वेषाभ्यां तथाऽनुष्ठेयमिति गाथार्थः ॥ ५४ ॥ रागद्दोसविरहिआ वणवाइउवमाइ भुंजंति । कचित्तु नमोक्कारं विहीए गुरुणा अणुन्नाया ॥ ३५५ ॥
ततश्च रागद्वेषविरहिताः सन्तः व्रणलेपाद्युपमया - ' व्रणलेपाक्षोपाङ्गव' दित्यादिलक्षणया भुञ्जते, 'कड्डेत्तु णमोक्कार' मिति पठित्वा नमस्कारं 'विधिना' वक्ष्यमाणलक्षणेन भुञ्जते, सन्दिशत पारयाम इत्यभिधाय गुरुणाऽनुज्ञाताः सन्त इति गाथार्थः ॥ ५५ ॥ विधिमाह -
निमहुरा पुष्टिं पित्ताईपसमणट्टया भुंजे । बुद्धिवलवणट्टा दुक्खं खु विगिंचिरं निद्धं ॥ ३५६ ॥
‘स्निग्धमधुरे' निस्यन्दनपायसादिरूपे 'पूर्वम्' आदौ पित्तादिप्रशमनार्थं भुञ्जीत, आदिशब्दात् वातादिपरिग्रहः, तदनु अम्लद्रव्यादीनि, प्रयोजनान्तरमाह - बुद्धिबलवर्द्धनार्थ, न हि बुद्धिबलरहितः परलोकसाधनं कर्त्तुमलमिति, तथा दुःखं च परित्यक्तुं, स्थण्डिलेऽपि सत्त्वव्यापत्तिसम्भवादिति गाथार्थः ॥ ५६ ॥ अत्रैव विधिविशेषमाह -
Jain Education International
For Private & Personal Use Only
आत्मानुशास्तिः स्निग्धादि
भोजनम्
॥ ५९ ॥
www.jainelibrary.org