________________
श्रीपञ्चव. प्रतिदिन- क्रिया २
कायनिरोधो वा-उर्ध्वस्थानादिलक्षणः 'से' तत्य कायिका[त्सर्गकर्तुः सामान्यागतस्य वा प्रायश्चित्तमिह कायिका- उत्सर्गे - दीर्यापथिकायां यत्पुनः स्मरणं समुदानिकातिचाराणामिति गम्यते तद्विहितानुष्ठानमेव यतीनां, एतच्च फर्मक्षयकारणं वानियम: परममिति गाथार्थः॥ २४ ॥ पराभिप्रायमाशङ्कय परिहरन्नाहजइ एवं ता किं पुण अन्नत्थवि सो न होइ नियमेण। पच्छित्तं होइ च्चिअअणिअमओज अणुस्सरणे॥३२५॥
यद्येवं कायनिरोध एव तत्र प्रायश्चित्तं तत्कि पुनरन्यत्रापि-भिक्षाटनादिव्यतिरेकेण कायिकागमनादौ असौ-कायनिरोध एव चतुर्विंशतिस्तवानुस्मरणशून्यो न भवति 'नियमेन' अवश्यंतया प्रायश्चित्तमिति?, अत्र गुरुराह-भवत्येव, न च भवति, कुत इत्याह-अनियमे एव 'यद्' यस्मादनुस्मरणे, तथाहि-न चतुर्विशतिस्तव एव तत्रापि चिन्त्येत, अपि तु यत्किञ्चिकुशलमिति, एतावता च नः प्रयोजनमित्यलं प्रसङ्गेन इति गाथार्थः ॥ २५॥
चिंतित्तु जोगमखिलं नवकारेणं तओ उ पारित्ता ।
पढिऊण थयं ताहे साहू आलोअए विहिणा ॥ ३२६ ॥ भिक्खिरिअत्ति दारं गयं ॥ चिन्तायित्वा योगमखिलं-सामुदनिकं नमस्कारेण 'ततश्च' तदनन्तरं पारयित्वा ‘णमो अरिहंताण मित्यनेन ततः ॥४॥ पठित्वा 'स्तवमिति'श्चतुर्विंशतिस्तवम् । व्याख्यातं शुद्धिद्वारम् , तद्व्याख्यानाच्चेर्याद्वारम् , अधुनाऽऽलोचनाद्वारमाह-10 'ततः' चतुर्विशतिस्तवपाठानन्तरं गुरुसमीपं गत्वा 'साधुः' भावतश्चारित्रपरिणामापन्नः सन् 'आलोचयेद्'भिक्षानिवेदनं
Jan Educate
For Private
Personel Use Only
SONainelibrary.org