SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकार परिचयः समाश्रितो यः शरणं क्षमाभृद्गणेन कर्माक्षनिपात भीत्या। अवारपारश्रियमादधानः स चन्द्रगच्छो भुवि सुप्रसिद्धः ॥१॥ भव्यारविन्दप्रतिबोधहेतुरखण्डवृत्तः प्रतिषिद्धदोषः। श्रयन्नपूर्वेन्दुतुलामिह श्रीभद्रेश्वरो नाम बभूव सूरिः॥२॥ तत्पट्टपूर्वाचलचण्डरोचिरजायत श्रीहरिभद्रसूरिः। मुदं न कस्मै रहितं विकृत्या तपश्च चित्तं च तनोति यस्य ॥३॥" अयमेव सूरिधुर्यः १२१५ वर्षे प्रणीतायां जम्बूद्वीपसमासटीकायां श्रीचन्द्रसूरिशिष्यैः श्रीविजयसिंहसूरिभिरपीथमस्मारि "श्रीभद्रेश्वरसूरिशिष्यहरिभद्राचार्यतः सद्गुरोः प्राप्तश्रीजिनचन्द्रसूरिचरणान्तेवासितामाश्रितः। सुरिः श्रीविजयस्त्विमां व्यरचयत्कल्याणमालाजुषां, शैक्षश्चाभयचन्द्रको लिखितवानुद्दामदाश्यः पुरा ॥" (७) चन्द्रगच्छीयः श्रीभद्रेश्वरसूरिपट्टप्राप्तप्रतिष्ठानां श्रीमदभयदेवसूरीणां शिष्यो बालचन्द्रकविगुरुश्च, इत्यादि उपदेशकन्दलीवृत्तिप्रशस्तितोऽवबुध्यते । तथाहि "श्रीचन्द्रगच्छवनकैरवकेलिचन्द्रश्चन्द्रप्रभप्रभुरभिज्ञतमस्ततोऽभूत् । यो विश्वलोकविदितां मुदिताऽन्तरात्मा प्राभातिकी जिनपतिस्तुतिमाततान ॥५॥ तस्माद्धनेश्वर इति श्रुतपारदृश्वा विश्वाभिरामचरितोऽभ्युदियाय सूरिः। यो मन्त्रमाप गुरुतः सुरभूयभाजः प्राबोधयच्च समयूपुरदेवतां यः॥६॥ SCORRISROGRAM Jain Education Intel For Private & Personel Use Only Jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy