________________
STORICA9055
तस्याऽभितः समभवन् भुवनप्रशस्याः शिष्याः श्रुताक्षकमलोद्धरणप्रवीणाः । चत्वार ऊर्जितरुचो विदुषां निषेव्या देव्याः करा इव पुराणकविप्रसूतेः ॥७॥ श्रीवीरभद्र इति सूरिरमीषु मुख्यः श्रीदेवसूरिरिति भूरिगुणो द्वितीयः। श्रीदेवभद्र इति सूरिवरस्तृतीयः श्रीशान्तिसूरिरिति च प्रथितश्चतुर्थः॥८॥ श्रीमण्डलीति नगरी नगरीतिलुप्तप्रासादसंहतिरितोऽस्त्यमरावतीव । देवेन्द्रसूरिसुगुरुर्विततान तस्यां तद्वासिनां च हृदि मूर्ध्नि च वासलक्ष्मीम् ॥९॥ प्रातिष्ठिपन्निजपदे स विनिद्रभद्रे भद्रेश्वरं प्रभुमनश्वरकीर्तिपूरम् । आख्यामनङ्ग इति संगतवान् यदीयध्यानानले मदनवन्मदनो विलीय ॥१०॥ तत्पट्टमौलिमणितामभजद्भवार्तिभीतात्मनामभयदोऽभयदेवसूरिः। पापातपापगममन्वहमातपत्रीभूयाङ्गिनां शिरसि यस्य करश्चकार ॥ ११ ॥ तत्पट्टपर्वतमलङ्कुरुते स्म कर्मव्यालावलीहरिनिभो हरिभद्रसूरिः । भूम्यां यदीयचरणोपनतैरशोभि मुक्ताफलोज्वलतमैर्जगती यशोभिः॥१२॥
Jain Education in
For Private & Personel Use Only
ainelibrary.org