________________
ग्रन्थकार
परिचयः
"कम्मविमुक्कसरूवो" १९२ इत्यादिगाथायुगलेन तस्य 'अमूर्तत्वम्' अभिहितम् । । "परिणामी खलु जीवो" १९४ इत्येतामारभ्य ४७५ तमी यावद् ब्यशीत्यधिकगाथाद्विशत्या तस्य 'परिणामित्वम्' संसाधितम् । "णाता संवित्तीउ" ४७६ इतीमामुपादाय ५४५ यावत् सप्तत्या गाथाभिरात्मनो 'ज्ञायकत्वम्' समर्थितम् । "कत्त त्ति दारमहुणा" ५४६ इत्यतः प्रक्रम्य पञ्चत्रिंशता गाथाभिस्तस्य 'कर्तृत्वम्' समुपपादितम् । "भोत्ता सकडफलस्स य" ५८१ एतामारभ्य ६०५ पर्यन्तया गाथापञ्चविंशत्या 'भोक्तृत्वम्' प्रसाधितम् । "नाणादिपरिणति०" ६०६ इत्यादितः ७४८ यावत् त्रिचत्वारिंशदधिकगाथाशतेन जीव-कर्मणोः संयोगसिद्धिरुपपादिता। "सम्मत्त-नाण-चरणा" ७४९ इत्यतः ११३७ पर्यन्तया एकोननवत्यधिकया गाथात्रिशत्या भावधर्भः प्ररूपितः ।।
"चोएति कहं रागादि०" ११३८ इत्येतामादीकृत्य १३७५ यावद् अष्टत्रिंशदधिकेन गाथानां शतकद्वयेन 'वीतराग-सर्वज्ञ-18 सिद्धी' व्युत्पादिते ।
"काऊण इमं धम्म" १३७६ इमां गाथामुपक्रम्य १३९६ तमी यावद् एकविंशत्या गाथाभिः पूर्वप्रतिपादितस्य भावधर्मस्य फलनिर्वच-1 नपुरःसरं प्रकरणमिदं परिसमाप्तिं प्रापितम् । निर्दिष्टविषयेषु चानेकेऽवान्तरविषयाः प्रचर्चिताः प्रसाधिताच, तदर्थं च पृथगुपन्यस्तो विस्तृतविषयानुक्रमो विलोकनीयः ।
एतत्संशोधनक्रियायां च कृतेऽपि विशेषप्रयत्ने पुस्तकद्वयमेव समासादितम् । प्रथमं श्रीमदुपाध्यायश्रीवीरविजयपादानां ज्ञानभाण्डागारसंबन्धि, १९५५ वर्षे लिखितम् , २३४ पत्रात्मक शुद्धप्रायं च । इदमत्र 'क' संज्ञया व्यवहृतम् । द्वितीयं च श्रीमतां हंसविजय
॥३८॥
--
Jain Education in
For Private & Personal use only
A
jainelibrary.org