SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Jain Education In | मुनिवराणां भाण्डागारीयं १९४७ तमे विक्रमवर्षे लिखितं ३१४ पत्रमयमशुद्धप्रायं च । एतच्च 'ख' संज्ञया निर्दिष्टम् । अन्यदपि चैक| मज्ञातस्वामिनामकं मददृष्टमपि पुस्तकमत्र साहाय्यकायाऽजनि यदाधारेणाऽस्य मुद्रणप्रतिकृतिरकारि मुद्रणव्यवस्थाकारिभिः, इदं पुनरत्र 'ग' नाम्नोलिखितम् । सत्यपाठविलोपभीत्या च पुस्तकत्रयेऽपि यो यत्र पाठभेदः समुपलब्धः शुद्धतया च प्रतिभातः स तत्रैव पुस्तकनाम्ना | सह पत्रस्याधोभागे टिप्पणरूपेण विन्यस्तः । पुस्तकत्रितयेऽपि त्रुटितपाठेषु अशुद्धतया प्रतिभातेषु च स्थलेषु मूलपाठाननुत्सार्य शुद्धपाठान् कल्पयित्वा तद एव ( ) एतादृशकोष्टकेषु समुपावेशयम् । प्राकृतभाषाऽनभिज्ञपाठकानां सौकर्याय च टीकान्तरागता अव्याख्याताश्च | प्राकृतपाठा अपि संस्कृतभाषायां प्रतिफलय्य तथैव स्थापिताः । तदेवं पुस्तकप्रदातृभिर्महात्मभिः परमुपकृतमत्र श्रेयः कर्मणि । एवं च पं० श्रीमदानन्दसागरगणिभिरपि अस्मत्सतीर्थ्येन विदुषा मुनि - सौभाग्यविजयेनापि च यथावसरं - विशेषतश्च विहारादिना|ऽनवस्थितदशायाम् — 'प्रुफ' शोधनादिना साहाय्यं प्रादायि । तदेतदर्थं सर्वानप्येतान्महात्मनो धन्यवादैरभिनन्द्य द्वग्दोषस्थितानां वर्णनियोजकप्रमादजातानां वा स्खलनादोषाणामपनयनाथ च विद्वद्वर्गमभ्यर्ध्य वक्तव्यमिदं परिसमाप्तिं नीयते । सैन्यपुरम्, संवत् १९७४ श्रावणशुक्लपञ्चमी आराध्यपाद - पंन्यासश्रीसिद्धिविजयगणिशिष्य मुनिसत्तमश्री केसरविजय मुनिपादारविन्दमधुत्रतो मुनि-कल्याणविजयः । For Private & Personal Use Only 4444649 v.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy