SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Jain Education “परं श्रीमलयगिरिपादैर्नैतद्विवक्षितं द्वयोरपि वनखण्डयोरेकमेव मानमुक्तम् । तत्त्वं पुनर्बहुश्रुता विदन्ति ।” ( जम्बूद्वीपसंग्रहणीटीकायां प्रभानन्दसूरयः ) “जयति श्रीमलयगिरिर्यत्कृतविवरणबलेन सूत्रार्थम् । गुरुगदितमिव व्यक्तं बुध्यन्ते मन्दमतयोऽपि ॥ ३ ॥” "यद्वाढं मूढधियाऽप्यदो विवरणं मया किमपि लिखितम् । तत्र सकलः प्रसादष्टीकाकारस्य मलयगिरेः ॥ २ ॥ मलयगिरिवचनचन्दनतर्वनुभावेन विवरणं ह्येतत् । गौरवपदं भविष्यति निम्बकदम्बादितुल्यमपि ॥ ३ ॥ " (लघुक्षेत्रसमासविवरणे रत्नशेखरसूरयः ) एवमेताभ्यां सूरिपुङ्गवाभ्यां रचितटीकितस्याऽस्य शास्त्रस्य योग्यतायां प्रामाणिकतायां च किमपि प्रमाणपरितर्कणं भानुमति चित्रभा| नूपयोगकल्पमेव प्रतिभायादिति परित्यज्यते तद्विषया चर्चा । अत्र प्रन्थकृता विविधयुक्तिकल्पनाप्रमाणैर्निम्नलिखिता विषयाः सविस्तरं समुपवर्णिताः - “नमिऊण वीयरागं” इत्यतः समारभ्य पञ्चत्रिंशता गाथाभिर्मङ्गलपूर्वकमभिधेयप्रयोजनाद्युपवर्णनमुपादायि । • “जीवो उनत्थि केई” ३६ इति गाथामादाय १५८ तमीं यावत् त्रयोविंशत्यधिकेन गाथाशतकेन चार्वाकाऽपरपर्यायाणां भौतिकपुरुषवादिनां मतं समीक्ष्य तन्निराकरणपूर्वकं 'जीवसत्ता' प्रसाधिता । "जम्हा ण कित्तिमो सो” १५९ इमां गाथामुपक्रम्य १९१ तमीपर्यन्ताभिस्त्रयस्त्रिंशता गाथाभिर्जीवस्य 'अनादिनिधनत्वम्' उपपादितम् । stional For Private & Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy