________________
-
--
ग्रन्थकार
परिचयः
। (५) चन्द्रप्रज्ञप्तिवृत्तिः (६) जीवाभिगमवृत्तिः (७) ज्यौतिषकरण्डकवृत्तिः (८) धर्मसंग्रहणीवृत्तिः (९) धर्मसारटीका (१०) नन्दीबृहद्वृत्तिः (११) पञ्चसंग्रवृत्तिः (१२) पिण्डनियुक्तिवृत्तिः (१३) प्रज्ञापनावृत्तिः (१४) बृहत्कल्पवृत्तिः (१५) भगवतीद्वितीयशतकवृत्तिः (१६) राजप्रश्नीयवृत्तिः (१७) विशेषावश्यकवृत्तिः (१८) व्यवहारवृत्तिः (१९) शब्दानुशासनं सवृत्ति
(५) प्रसिद्धा, ९५०० सहस्रप्रमितश्लोका (६) प्रसिद्धा मुद्रिता, षोडशसहस्र-१६०००-श्लोकप्रमाणा च (७) ससूत्रायाः श्लोकसंख्या ५००० सहस्राणि (८) इयं प्रकाश्यमाना, एषा च नन्दीटीकानिर्माणात्पूर्वमेव जातरचना इति तत्कāव नन्दीवृत्ती--"अत्र बहु वक्तव्यं तच्च प्रायः हा प्रागेवोक्तमन्यत्र-धर्मसंग्रहणीटीकादाविति नोच्यते"-इति वचनेन सूचितम् । श्लोकमानं चास्याः ११००० सहस्राणि (९) धर्मसंग्रहणीटीका
यामुपलभ्यमानेन-"यथा चाऽपुरुषार्थता अर्थ-कामयोस्तथा धर्मसारटीकायामभिहितमिति नेह प्रतायते"-इत्युल्लेखेन ज्ञातसद्भावा (१०)प्रसिद्धा मुद्रिता च, प्रमाणतश्च ७७३२ श्लोकात्मिका (११) प्रसिद्धा मुद्रिता च, प्रमाणमस्याः १८८५० प्रमितश्लोकाः (१२) ६७०० संख्याकश्लोका (१३) मुद्रिता, १४५०० संख्याकश्लोकपरिकलिता (१४) अस्याः ४२००० सहस्रश्लोकमानायाः ४६०० श्लोकात्मकः |पीठिकाभाग एव प्रकृतसूरिकर्तृकः, अग्रेतनस्तु तपाक्षेमकीर्तिपूरितः । तदाहुः क्षेमकीर्तिसूरयोप्येतट्टीकायाम्
"श्रामलयगिरिप्रभवो यां कर्तुमुपाक्रमन्त मतिमन्तः । सा कल्पशास्त्रटीका मयाऽनुसंधीयतेऽल्पधिया ॥" (१५) श्लोकसंख्या ३७५० सहस्राणि (१६) मुद्रिता ३७०० श्लोकप्रमिता च,(१७)अस्याः श्लोकसंख्या९०००प्रमाणा (१८)प्रसिद्धा, ३३६२५ संख्याकश्लोका च, (१९) इदं कैश्चित् "मुष्टिव्याकरणम्" इति नाम्नापि व्यवहृतं दृश्यते, "मलयगिरिव्याकरणम्" इत्यपि च केचन व्याजद्दुः । "मलयगिरिप्रभृतिव्याकरणप्रणीतेन लक्षणेन संस्कारमापादितं वचनं संस्कृतम् ।" (बृहत्कल्पटीका) सवृत्तिकस्याऽस्य श्लोकमानं च४३०० रूपम्
॥३६॥
Jain Education
For Private & Personel Use Only
Flow.jainelibrary.org