SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ CACHECRECR ग्रन्थकार- "एकदा श्रीगुरूनापृच्छ्याऽन्यगच्छीयदेवेन्द्रसूरि-मलयगिरिभ्यां सह कलाकलापकौशलाद्यर्थ गौडदेशं प्रति प्रस्थिताः । खिल्लूरनामे च परिचयः द त्रयो जना गताः । तत्र ग्लानो मुनिर्वैयावृत्त्यादिना प्रतिचरितः । स श्रीरैवतकतीर्थे देवनमस्करणकृतार्तिः । यावदामाध्यक्षश्राद्धेभ्यः सुखा॥३५॥ सनं तद्वाहकांश्च प्रगुणीकृत्य सुप्तास्तावत् प्रत्यूषे प्रबुद्धाः खं रैवतके पश्यन्ति । शासनदेवता प्रत्यक्षीभूय कृतगुणस्तुतिर्भाग्यवतां भवतामत्र ६ स्थिताना सर्व भावीति गौडदेशे गमनं निषिध्य महौषधीरनेकान् मन्त्रान् नामप्रभावाद्याख्यानपूर्वकमाख्याय स्वस्थानं जगाम । एकदा श्रीगु रुभिः सुमुहूर्ते दीपोत्सवचतुर्दशीरात्रौ श्रीसिद्धचक्रमन्त्रस्साम्नायः समुपदिष्टः । स च पद्मिनीस्वीकृतोत्तरसाधकत्वेन साध्यते ततः सिद्ध्यति, याचितं वरं दत्ते नाऽन्यथा। ततोऽन्यदा कुमारग्रामे धौतां शोषणार्थ विस्तारितां शाटिकां परिमलाकर्षितभ्रमरकुलसंकुलामालोक्य पृष्टो रजकस्तैः–'कस्या इयं शाटिका?' इति । सोऽवगू-प्रामाध्यक्षपल्या इयम् । ततो गतास्तस्मिन् प्रामे । ग्रामाध्यक्षप्रदत्तोपाश्रये स्थिताः । स च प्रत्यहं समायाति, धर्मदेशनां शृणोति । तेषां ज्ञानक्रियावैराग्याऽप्रमत्तत्वादिगुणान् दृष्ट्वा तथाविधभव्यत्वपरिपाकाद्गुणानुरागरजितस्वान्तः प्रमुदितः प्राह-यूयमनिच्छवः परमेश्वराः किमपि कार्य मत्साध्यं समादिशन्तु । ततस्ते तं स्वान्तनिवेदिनं गुणानुरागगम्भीर|वेदिनं ज्ञात्वा प्राहुः-अस्माकं श्रीसिद्धचक्रमन्त्रः साधयितुमिष्टोऽस्ति । स च पद्मिनीस्त्रीकृतोत्तरसाधकत्वेन सिध्यति नाऽन्यथा, तेन तव | या पद्मिनी स्त्री वर्तते तां लात्वा त्वं कृष्णचतुर्दशीरात्रौ रैवतकाचले समागच्छ, अस्माकमुत्तरसाधकत्वं कुरु । विकारदर्शने शिरच्छेदस्त्वयैव || 8 विधेयः । इत्याकर्ण्य प्रामाध्यक्षो विस्मयस्मेरमन। मनाम् विमृश्य चिन्तयाञ्चकार-एते तावन्महर्षयः समतृणमणिलोष्टकाश्चनाः परब्रह्म-15 ॥३५॥ | १-जिनप्रभसूरयस्तीर्थकल्पे-"नवंगवित्तिकारसाहासमुब्भवेहिं सिरिदेविंदसूरीहिं चत्तारि महाबिंबाई दिव्वसत्तीए गयणमग्गेण आणिआई"-इत्यनेन वचनसंदर्भेण सूरीणामेषां नवाङ्गवृत्तिकारश्रीमदभयदेवसूरिसंतानीयत्वं बिम्बचतुष्टयमात्रानयनं च प्रत्यपत्सत । A CCRICC Jan Education International For Private & Personal Use Only Harjainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy