________________
टीकाकाराः।
अथास्या धर्मसंग्रहणेष्टीकाकाराः सिद्धान्तादिवृत्तिकरणतो विख्यातकीर्तयोऽप्यविख्यातेतिवृत्ताः श्रीमन्तो मलयगिरिसूरयः कदेमं मानवलोकम्-विशेषतया जैनसमाजम्-अनन्यसाधारणेन खजीवनेनोपाकृषत ? इति प्रश्नोऽप्यवसरप्राप्तः, एतदुत्तरार्थे च बहुकृतेऽप्यन्वेषणप्रयासे न मनस्तोषावहं कुतोऽप्यापि पुरावृत्तम् , तथापि, 'मलयगिरिव्याकरण'–नाम्ना विश्रुते एतदीये एव शब्दानुशासने "अरुण| दरातीन कुमारपालः” इति दृश्यार्थत्यादिविभक्त्यन्तोदाहरणोपन्यासेन स्वस्य कुमारपालराज्यकालभवत्वं निवेदितमेभिः। कुमारपालप्रबन्धेष्वप्येकस्मिन् कथाभागे एषां हेमचन्द्रसूरिभिः समं विहारः श्रीसिद्धचक्राधिष्टायकविमलेश्वरदेवतः सिद्धान्तवृत्तिनिर्माणवरदानप्राप्तिश्च । समुपवर्णिता, तथा च जिनमण्डनीयकुमारपालप्रबन्धे
१-"अदहदरातीन् कुमारपालः" इति पिटर्सनकार्यविवरणपुस्तके ।२-कुमारपालराज्यकालस्तु कुमारपालप्रबन्धादिषु-"संवत् ११९९ वर्षे मार्गशीर्षे चतुर्थी इयामायां पुष्यार्के सर्वग्रहोपेते मीनलग्ने सर्वे सामन्ताः कुमारं राज्येऽभ्यषिश्चन्त ।"-इति प्रतिपादितसिंहासनप्राप्तेरारभ्य त्रिंशदधिकवर्षद्वादशशतं यावत् । ३-एतद्रचनासमयः प्रबन्धका तत्प्रान्तभागे एवं प्रत्यपादि
"प्रबन्धो योजितः श्रीमत्कुमारनृपतेरयम् । गद्यपधैर्नवैः कैश्चित् कैश्चित् प्राक्तननिर्मितैः ॥१॥ श्रीसोमसुन्दरगुरोः शिष्येण यथाश्रुतानुसारेण । श्रीजिनमण्डनगणिना यङ्कमनु-१४९२-प्रमितवत्सरे रुचिरः ॥ २॥"
Jain Education in
For Private & Personel Use Only
N
ainelibrary.org