________________
प्रन्थकार
परिचय:
ब्दभवत्वं धर्मोत्तरस्याङ्गीकृत्य तद्न्थटिप्पणकारं च मल्लवादिनमभिप्रेत्य हारिभद्रीयग्रन्थेषु तन्नामप्रेक्षणमध्यक्षबाधितमेव ।
तदेवमनेकप्रमाणोपदर्शनेन बाधकनिरसनेन च विचारिते हारिभद्रीयसत्तासमये मन्ये द्वितीयमतमेव सौष्टवमाप्नुयाद् । अयं च विषयो | यथा यथा विचार्यते तथा तथा विशालतामुपयाति प्रौढतां च भजते तथाप्यतिविस्तरभयात् साम्प्रतमस्मात्प्रकरणाद् विरमणमेव रमणीयम् ।
॥३४॥
"वृद्धसेवाप्रसिद्धोऽपि जुवन्नेवं विशङ्कितः । बालवत्स्यादुपालभ्यस्त्रविद्यविदुषामयम् ॥ तथा हि सोऽयं वृद्धधर्मोत्तरानुसार्यप्यलीकवाचालतया तुल्यखरूपयोरपि व्युत्पत्तिव्यवहारकालयोरतुल्यतामुपकल्पयन् बाल इवैकामप्यङ्गुलिं वेगवत्तया चालयन् द्वयीकृत्य दर्शयतीत्येवमुपालभ्यते त्रैविद्यकोविदैः ।" ( स्या० पृ० १२ ) “सोऽयं साहित्यज्ञताभिमानात् तत्र वृद्धधर्मोत्तरमधरयति ।" (स्या० पृ० १३) इत्याद्युल्लेखैधर्मकीर्तिग्रन्थटीकयितारं धर्मोत्तराचार्य वृद्धधर्मोत्तरानुयायित्वेन निर्दिशन्तो भूतपूर्व वृद्धधर्मोत्तरास्ति. त्वमुपदिशन्ति स्याद्वादरत्नाकरकाराः ।
*****ASAASTAT
॥३४॥
Jain Education | 44100
For Private Personel Use Only
T
ww.jainelibrary.org