________________
Jain Educatio
चाऽयं बभूव ! इत्यनयोरनुयोगयोरतिदुष्करमसंदिग्धोत्तरम् । यद्यपि धर्मोत्तरटिप्पणकारमल्लवादिनामितिवृत्तमुपलभ्यते जैनपुस्तकेषु तथापि वीरसंवद् ८८४ रूपस्तत्रोक्तस्तत्सत्तासमयो नाधुनिकानां विश्वासस्थानम् । यस्याष्टिप्पणं मल्लवादिकृतिस्तस्या न्यायबिन्दुटीकायाः कर्तुर्धर्मोत्तराचार्यस्य समय: इ० सं० ७४७ रूपो निर्धार्यते, एतत्संबन्धेन मल्लवादिनोऽपि ई० सं० अष्टमशतके समाकृष्यन्ते स्माऽन्वेषककोविदैः । | समुपस्थितमिमं विसंवादमपाकर्तुमबाध्यं साधनं यद्यपि दुर्लभं तथापि न सर्वथा तदसंभव: । हरिभद्रसूरिभिर नेकान्तजयपताकायां मल्लवादिनामग्रहणमक्रियतेति सत्यं परं तत् सम्मतिकारत्वेन नतु धर्मोत्तरीय-न्यायबिन्दुटीका-टिप्पणकृत्वेन । ततश्चैवमङ्गीकर्तव्यं यदनेकान्तजयपताकोल्लिखितनामा सम्मतिकारतया विख्यातो वादिमुख्यो मल्लवादी धर्मोत्तरटिप्पणकारक मल्लवादितो भिन्न एव स्यात् । दिग्नाग-महादिग्भागवत् धर्मोत्तर - वृद्धधर्मोत्तरवर्थे मल्लवादिद्वयमपि नाऽसङ्गतिमश्रुते । परमार्थतश्चैवमङ्गीकरणमेव निस्तारोपायः । ७४७ ईसवीया
१- प्रभावकचरित - प्रबन्धामृतदीर्घिकादिजैनग्रन्थेषु मल्लवादिचरितमुपवर्णितम् ।
२-श्रीवीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते । जिग्ये स मल्लवादी बौद्धांस्तयन्तरांचापि । (-प्रभावकचरितम् ) । ३–“महादिग्नागादिभेदेनाऽनेके दिग्नागाः संजाताः, वार्तिककारेण कस्य दिग्नागस्य मतं खण्डितम् ।” (न्यायवार्त्तिकभूमिका पृ० १२) ४ - " अत्राह धर्मोत्तर: " - ( स्याद्वादरत्नाकरपरिच्छेदः १ पृ० १० ) इत्यनेन धर्मोत्तरमधिकृत्य -
“बलदेवबलं स्वीयं दर्शयन् न निदर्शनम् । वृद्धधर्मोत्तरस्यैव भावमत्र न्यरूपयत् ॥” (स्या० प० १ पृ० ११ )
tional
For Private & Personal Use Only
www.jainelibrary.org