________________
ग्रन्थकार
परिचयः
तदेवम् ई० सं० चतुर्थशतकमध्यभवस्य धर्मकीतेरभिधानं हारिभद्रीयग्रन्थेषूपलभ्यमानमपि न तेषां षष्ठशतात्मकस्य सत्तासमयस्य | विबाधकं विरोधकं वा समुत्पश्यामः ।
धर्मकीर्तेरभिधानमिव मल्लवादिनामापि हरिभद्रसूरिग्रन्थेष्ववलोक्यमानं तेषां प्राच्यत्वे विसंवादमुपस्थापयति' । कोऽयं मल्लवादी ? कदाशब्दस्येति । तदयुक्तम् ।" (-न्यायवार्तिकम् १-१-२३ पृ० ९३ ) "केचित्तु विरुद्धाव्यभिचारिणमनैकान्तिकं वर्णयन्ति । तन्न, असत्त्वात् । नाऽयमस्तीत्युक्तम् ।" (-न्यायवार्तिकम् १-२-५ पृ. १६९) इत्यादिना निरस्तम् । धर्मकीर्तिनाप्यस्य हेत्वाभासत्वं न्यायबिन्दौ-"विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः स इह कस्मा नोक्तोऽनुमानविषयेऽसंभवात् ।" (-न्यायबिन्दुपरिच्छेदः ३ पृ० ११५) इत्यनेन तिरोहितम् । अथ चेद्धर्मकीर्तिरुद्योतकरात्पश्चाद्भवस्तदपाकृतदिग्नागमतमण्डनोद्यतश्च तदा स उद्द्योतकरकृतनिरासं दिग्नागमतं मण्डयेदेव न चैवं दृश्यते, प्रत्युत |स्वयमपि तत्स्थलमेव क्वचिन्निराकरोति । तदेतेनानुमीयते यद् उद्द्योतकरकृतं दिग्नागमतखण्डनं नाऽदर्शि धर्मकीर्तिना, दृष्टं स्याच्चेत् स्यादेव तत्कृतं तदुद्धरणम् । “यदपि हेतुवार्तिकं ब्रुवाणेनोक्तम्-सप्तिकासंभवे षट्प्रतिषेधादेक द्विपदपर्युदासेन त्रिलक्षणो हेतुरिति । एतदप्ययुक्तम् ।"
(-न्यायवार्तिकम् १-१-३५ पृ० १२८) इत्यत्र न्यायवात्तिककारेण निरस्तमन्तव्यो बौद्धवात्तिककारश्च यदि अन्यस्य वार्तिककारत्वेनाऽश्रवणात् हा धर्मकीतिरेव स्यात्तदा तु सिद्धमेव धर्मकीर्तेरुद्योतकरप्राग्भवत्वम् ।
१-"उक्तं च वादिमुख्येन मल्लवादिना सम्मतौ-स्वपरेत्यादि" (-अनेकान्तजयप० पृ. ४८) "उक्तं च वादिमुख्येन मल्लुवादिना ४ सम्मतौ-किमित्याह-न विषयग्रहणपरिणामादृतेऽपरः संवेदने विषयप्रतिभासो युज्यते, युक्त्ययोगात् ।" (-अनेकान्तजयप० पृ० ९९) ।
॥३३॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org