________________
Jain Education |
परमत्र वयमन्यद्विजानीमः, दिमागेन न्यायभाष्यमपाचक्रे इति सत्यम्, दिग्नागोक्तमुद्द्द्योतकरेण निरासीत्यपि प्रमाणसिद्धम् पश्यामः खल्वत्र प्रमाणं तथाहि " मनश्च (मनसश्च ) इन्द्रियभावान्न वाच्यं लक्षणान्तरमिति, तन्त्रान्तरसमाचाराचैतत् प्रत्येतव्यमिति । परमतमप्रतिषिद्धमनुमतमिति हि तन्त्रयुक्तिः ।” ( न्यायभाष्यम् १-१-४) अस्य खण्डनं प्रमाणसमुच्चये
“अनिषेधादुपात्तं चेदन्येन्द्रियरुतं वृथा । " ( - प्रमाणसमुच्चयः) ।
अस्य निराकरणं च न्यायवार्त्तिके एवम् - "तन्त्रान्तरसमाचाराच्च तन्त्रान्तरे मन इन्द्रियमिति पठ्यते तच्चेह न प्रतिषिध्यते । अप्रतिषेधादुपात्तं तदिति । न । शेषाभिधानवैयर्थ्यात् । शेषाण्यपीन्द्रियाणि तैः परिपठितानि तस्मात् तान्यपि न वक्तव्यानि यद्यप्रतिषेधादुपात्तं स्यादिति । न । तन्त्रयुक्तयनवबोधात् । न भवता तन्त्रयुक्तिः परिज्ञायते । परमतमप्रतिषिद्धमनुमतमिति हि तन्त्रयुक्तिः । न च यस्य स्वमतपरिग्रहो नास्ति तस्य स्वमतं परमतं वा भिद्यते भवता च परमतानुरोधेन सर्वं स्वमतं निवार्यत इति । तन्निवारणात् स्वमतं परमतमित्येव न स्यात् । तस्मादस्ति मन इन्द्रियं चेति ।" (-न्यायवार्त्तिकम् १-१-४ पृ० ३९) न चैवंविधं धर्मकीर्तिग्रन्थेषु न्यायवार्त्तिकस्य निराकरणमुपलभामहे न्यायवार्त्तिके च धर्मकीर्तीयग्रन्थानाम् । यद्येतयोरेकतरः पूर्वभवश्चेत् स्यादेवेतरग्रन्थेषु तन्मतोद्धरणं यथोक्तं प्राक् । ततश्चैवमनुमीयते यदेनौ समकालसंभवाविति । उद्द्योतकरो हि स्वजन्मना मिथिलामण्डलमुद्योतयामास इत्यन्वेषकाणां मतम् । धर्मकीर्तिश्च प्रायोऽधिकं तिबेटदेशमध्युवास इत्यपि प्रसिद्धम् । एवं चाल्पसाधने तदानींसमये तयोस्तद्वन्यानां च समागमस्य दुर्लभतया परस्परनिराकरणाभावोऽपि यौक्तिकतामश्नुते इति ।
किंच, दिग्नागाभिमतस्य विरुद्ध व्यभिचारिणः संशयहेतुत्वमनैकान्तिकत्वं च उद्योतकरेण न्यायवार्त्तिके – “एके त्वनेकधर्म इत्यन्यथा व्याचक्षते, एकस्मादन्योऽनेकधर्म इति । एवं च विरुद्धाव्यभिचारिधर्मद्वयोपनिपातो लभ्यते यं प्रति तर्कमाडुः स च संशयहेतुः यथा श्रावणत्वकृतकत्वे
For Private & Personal Use Only
w.jainelibrary.org