________________
परिचयः
प्रन्थकार- दाचरणम् । यतोऽस्याः प्रारम्भे विक्रमादित्यस्य मरणजं रसवत्तावसानसंभवं च शोकं कविरुपवर्णयति ।
___ अयं च विक्रमादित्यो न गुप्तवंशीयः प्रथमचन्द्रगुप्तः स्कन्दगुप्तो वा संभवति । विक्रमादित्योपाधिधारित्वेपि नैतयोरेतादृशी विद्यारसिकत्वप्रसिद्धिरभवत । सा हि द्वितीयचन्द्रगुप्तेन समलभ्यत । समुद्रगुप्तकुलाम्बरशशाङ्कस्य विद्याविलासिनोऽस्य द्वितीयविक्रमादित्यस्य राजत्वकालस्त ईसवीयचतुर्थशतकस्य चरमं चरणं निर्धारितम् । एवमपि चतुर्थशतकान्त्यभागे पञ्चमशतस्य च प्रथमपादे लब्धसत्ताकात्सबन्धोः पर्वभवस्य धर्मकीर्तेश्चतुर्थशतकमध्यभागे विद्यमानत्वं न विबाध्यते । न्यायवार्तिकप्रणेतुर्भारद्वाजोद्योतकरस्यापि नामनिर्देशः सबन्धकतवासवदत्तायामुपलभ्यते । सुबन्धोः समयः पूर्वोक्तानुमानमनुसृत्य ३७५-४२५ रूपो निर्णीयते । ततश्चोद्योतकरकालः ईसवीयचतुर्थशतकमध्यभागः समापतति स एव च तत्समकालभवस्य धर्मकीर्तेरष्यस्तित्वसमयः ।
ACCखसर
विषयसंनिधानात् । नहि वर्णविकल्पकाले प्रत्यक्षप्रत्ययार्थो न संनिहित इति ।" (न्यायावतारवृत्तिटिप्पण पृ०७) "मनसो" रित्येतत्कारिकाविवरणे "विशेषतस्वेतत्कारिकार्थो बौद्धालंकारादेरवसेयः ।" (-न्यायावतारवृत्तिटि० पृ० ७) इत्यादिनोल्लिखितो 'बौद्धालंकाराख्यः' प्रमाणग्रन्थ एव संभाव्यते । अस्य कर्ता च वासवदत्ताटीकाकृतः शिवरामस्य कथनानुसारेण धर्मकीतिरेव स्यादिति ।
१-"सा-रसवत्ता विहतान-बका विलसन्ति चरति नो कं-कः । सरसीव कीर्तिशेष गतवति भुवि विक्रमादित्ये ॥"(वासवदत्ता)
२-"न्यायस्थितिमिवोद्योतकरस्वरूपाम् ।' (-वासवदत्ता) ३-यद्यपि बहूनामितिवृत्तविदुषामयं विश्वासो यत्खलु न्यायभाष्यस्य दिमागेन प्रमाणसमुच्चयादौ खण्डनमकारि । दिग्नागमतं च उद्द्योतकरेण न्यायवार्त्तिके निरस्तम् । न्यायवार्तिकं पुनर्धर्मकीर्तिना स्वग्रन्थेष्वपाकृतमिति ।
॥३२॥
Jain Education K
ona
For Private & Personel Use Only
T
ww.jainelibrary.org