________________
प्रतिफलनमभवत् । अनयापि गणनया वसुबन्धोर्विद्यमानतासमयस्तृतीयशतक एवापतति । यश्च वसुबन्धोरस्तित्वसमयः स एवैतस्य गुरुबन्धोरार्याऽसङ्गस्य तच्छिष्ययोराचार्यदिग्नाग-धर्मकीर्योश्च । केवलं वयोविशेषकृतो विभेदः संभवति । दिनागो हि वसुबन्धोः पश्चादस्यैव प्रमाणशास्त्रगुरुणा मनोहितेन प्रमाणशास्त्रं पाठितः । ततश्च वक्तुमिदं सुशकं, वसुबन्धुमपेक्ष्य दिग्नागो वयसा लघुरासीत् , ततोऽपि च |धर्मकीर्तिरिति । यतोऽयमाचार्यदिग्नागस्य ग्रन्थान् व्याख्यातुं प्रख्यापयितुं च ततोऽपि चिरमललम्बत् स्वजीवनसूत्रम् । एतद्गणनाधारण आर्याऽसङ्गस्य २५०-३००, वसुबन्धोः २६०-३४०, दिग्नागस्य ३२०, धर्मकीतेश्च ३४९ तमः ख्रिष्टसमयो लभ्यते ।
सुबन्धुकृतौ वासवदत्तायां धर्मकीर्तिकृताऽलङ्कारनाम्रो ग्रन्थस्योल्लेखः संप्राप्यते । वासवदत्तानिर्माणकालश्च ईसवीयपञ्चमशतस्य तृतीयं 5|| | १-प्रो० के० ह. ध्रुवमतेन धर्मकीर्तीयसत्तासमयः ४५० ख्रिष्टाब्दात्मकः । २-"बौद्धसङ्गतिमिवालंकारभूषिताम्" (-वासवदत्ता) | "बौद्धसङ्गतिमिवालंकारो धर्मकीर्तिकृतो ग्रन्थविशेषस्तेन भूषिताम्" (वासवदत्ता-टीका) प्रो० के० ह.भुवमहाशयस्तु 'अलंकार' इत्यस्य संपूर्ण |नाम 'सूत्रालंकार' इत्याचष्टे । अस्य विरचयितारं चाश्वघोषं प्रतिपादयति । परम् अयमलंकारोऽश्वघोषस्य 'सूत्रालंकारः' स्यादिति न श्रद्धापथमवतरति । कविना प्रयुक्तः सङ्गति'-शब्द एव स्फुटमिदमावेदयति यदुत-अलंकारनामकं कमपि बौद्धन्यायग्रन्थमुद्दिश्य कवेरियमुक्तिः । अश्वघो। षस्य न्यायग्रन्थविनिर्माणे नाद्ययावत् किमपि प्रमाणमुपलब्धम् । ततश्च सूत्रालंकारस्यैतत्कर्तृकत्वेऽपि स धार्मिक एव ग्रन्थः स्यादित्यस्माकं मतिः । धार्मिकेण च ग्रन्थेन बौद्धदर्शनसंगति भूषितां कविरुपवर्णयेदित्यश्रद्धयमिदम् । तेन शक्यमिदं वक्तुं वासवदत्ताया 'अलंकारो' नाश्वघोषस्य कृतिः | | 'सूत्रालंकारो' नाम धार्मिकग्रन्थः, अपि तु 'न्यायावतार'-वृत्तिटिप्पणादिषु “यद्बौद्धालंकारः-कथं तर्हि क्रमेण प्रहणं न भवति ! युगपद् |
Jan Educational
For Private
Personel Use Only
P
w.jainelibrary.org