SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकार परिचयः ॥३१॥ शते प्रावेशि | पटेर्वाऽन्तरस्वीकानो बादाय 'भगवद्वद्धजीवनचरित'-नाम्नि तिबेटन्पुस्तके धर्मरत्नराजः समुल्लिखति-'दिमागो धर्मकीर्तिश्च आर्याऽसङ्गस्य शिष्यावास्ताम् , प्रमा- णशास्त्रं च ताभ्यामध्यगाहि तपार्श्वे ।' योगाचारमतस्याऽद्वितीयो नेता आर्याऽसङ्गोऽयमभिधर्मकोषविधातुर्भदन्तवसुबन्धोरण्यबन्धुः । अस्य सत्ताकालश्च ख्रिष्टाब्दानां तृतीयशतकस्योत्तरभागो निर्धार्यते । यतोऽस्य लघुबन्धुना भदन्तवसुबन्धुना प्रायः स्वीयमध वयस्तृतीयशतके व्यतिक्रम्य पश्चिमेन वयसा सह चतुर्थे शते प्रावेशि । वसुबन्धोरभिधर्मकोषः ४०४-५ तमनिष्टाब्देषु चीनभाषायां प्रतिफलितः ।। स्वस्थाने प्रचारमासाद्य दवीयःप्रदेशे तल्लाभाय वर्षाणां पञ्चाशतः षष्टेर्वाऽन्तरस्वीकारेऽभिधर्मकोषस्य निर्माणसमयः ३४५ तमनिष्टाब्दासन्नः समापद्यते । अस्मिंश्च समये वसुबन्धुरशीतिवर्षदेशीयः संभाव्यते । यतोऽमुं भदन्तसंघभद्रो वादाय समाजुहाव । अयं च स्ववार्धकं पुरस्कृत्य तदाबानं न्यषेधयत् , न्यवेदयच्च–'यद्यावयोर्वादः समापन्नः, तत्र चाहं पराजितो भवेयं तथापि ममाभिधर्मकोषस्य न लेशतोऽपि क्षति६ रिति सुतरामवधेयम् ।' अनेन ज्ञायते यदसौ वसुबन्धुरीसवीयतृतीयशतकस्य तृतीयचरणादारभ्य चतुर्थशतकस्य पूर्वार्द्ध यावद् विद्यमान आसीत् । श्रूयते किलायमशीतिवर्षायुष्को भूत्वा परलोकमसाधयत् । ___ 'लक्षणानुसार'-शास्त्रस्य प्रणेता गुणमतिराचार्यों वसुबन्धुं नामग्राहमुल्लिखति स्म । अस्य बलभिनिवासिनो बौद्धाचार्यस्य स्थिरमतिनामा सतीर्थ्यः समभवत् । तेन स्थिरमतिना महायानमतादर्शभूतः कोऽपि ग्रन्थो विनिर्ममे । तस्य च ४०० तमनिष्टाब्दे चीनभाषायां ॥३१॥ १-द्रष्टव्यम्-पण्डित-गोपाल-रघुनाथसम्पादितरघुवंशभूमिकायाम् । For Private Personal Use Only Jan Education Interior www.ainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy