SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ —स एव च समयस्तत्पट्टमधितस्थुषः सुरेश्वराचार्यस्यं । एवं च धर्मकीर्तिस्ततोऽपि प्राचीन इति निस्संशयमसिध्यत् । "प्रात तिष्यशरदामतियातवत्यामेकादशाधिकशतोनचतुः सहस्याम् ।" अन्यत्रापि - "निधिनागेभवह्नन्दे विभवे मासि माधवे । शुक् तिथौ दशम्यां तु शंकरार्योदयः स्मृतः ॥" इत्यादि, परमत्र विश्वासकारणं न लभामहे । शंकराचार्य भट्टकुमारिलौ समकालभवाविति हि शंकरानुयायिनां दृढविश्वासः । भट्टकुमारिलश्च न कथंचनापि ई. स. सप्तमशतात्पश्चाद्भवत्वमर्हति । यतोऽस्य मतनिरसनं शान्तरक्षितस्य तत्त्वसंग्रहे कमलशीलकृतायां तत्पञ्जिकायां च पदे पदे निरीक्ष्यते । कुमारिलस्य श्लोकवार्त्तिकव्याख्यातुरोम्बेयकस्यापि नामोल्लेखस्तत्त्वसंग्रहपञ्जिकायाम् — “उम्बेयकस्वाह” (तत्त्वसंग्रहपञ्जिकापत्र २६६ पृ० २ ) इत्यादिस्थलेषु विलोक्यते । अपि च तत्रैव पुस्तके " ननु चेत्यादिना शंकरस्वामिनः परिहारमाशङ्कते ” ( तत्त्वसं० पञ्जि० पत्र ७३ पृ० १ ) " शंकरस्वामी प्राह न ज्ञानस्वभावाः सुखादयः " ( तत्त्व० पञ्जि० प० १३९ पृ० १ ) इत्यादिस्थलेषु 'शंकरस्वामि' नाम्ना व्यवहृतानां शंकराचार्याणामपि नामग्राहं मतनिराकरणं विधीयते स्म । उपर्युक्तग्रन्थयोर्निर्माणसमयश्च यथाक्रमं ७४९ तमः ७५० तमश्च स्त्रिष्टाब्दात्मक इति स्पष्टमेव पूर्वोक्तः शंकराचार्य जन्मकालो विसंवादमापद्यते । तस्मात् पण्डितकाशीनाथ तैलंगनिर्णीतं षष्ठशताब्दी भवत्वं ततोऽपि वा प्राचीनत्वं कुमारिलादर्वाचीनत्वं वा शंकराचार्याणामुररीकर्तव्यम् । शृङ्गेरीमठाधीश्वर शंकराचार्याणां पट्टावल्यां पुनरादिशंकराचार्याणां संन्यासग्रहणकालो विक्रमाब्द २२ रूपः समाधिसमयश्च ४६ वर्षात्मको निरूपितः । १- पूर्वोल्लिखितपट्टावल्यनुसारेण सुरेश्वराचार्यस्य संन्यासादानसमयो विक्रमसंवत् ३०, समाधिकालस्य विक्रमसंवत् ६९५ वर्षात्मकः (१) । धर्म.प्र. ७ Jain Education Internat For Private & Personal Use Only w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy