________________
ग्रन्थकार-
॥३०॥
CIALISAACAMASSACROCOM
त्रोक्ताः प्रोल्लापाः केवलं बौद्धकल्पनालब्धजन्मानः प्रतिभान्ति । एवंभूताच कर्णोपकर्णिकवृत्तान्ताद्विचारितनिश्चितो धर्मकीर्तिसत्ताकाल-| निर्णयोपि न विश्वासास्पदम् ।
एवं संक्षेपतो विद्याभूषणमहाशयस्य लेखं समालोच्य साम्प्रतं प्रकृतविषयोपयुक्तानि प्रमाणान्तराणि समन्वेषयामः । | शंकराचार्य-कुमारिलयोः प्रयागे समापन्नस्य समागमनस्योदन्तः शंकरदिग्विजयादौ सुप्रसिद्धः । तस्यैव भट्टकुमारिलस्य शिष्यो मण्डनमिश्राख्यः शंकराचार्यपावे संन्यासं संप्रतिपद्य सुरेश्वराचार्यनाम्ना विख्यातिमाप्तवान् । स निजे बृहदारण्यकोपनिषद्वार्तिके धर्मकीर्तेर्नामोदलिखेत् । त्र्यम्बकात्मज-पण्डितकाशीनाथतैलंगमहाशयानामन्वेषणानुसारेण पूर्णवर्मभूपतिसमसमयकत्वेन शंकराचार्या ईसवीयषष्ठशताब्द्या विद्यमाना आसन।
१-'बाहिरनिदानवण्णना-प्रभृतिबौद्धधार्मिकग्रन्थपाठकैर्विदितचरमेव स्यात् यदुत, स्वधार्मिकोत्कर्षप्रसिद्धये निस्सीमातिशयोक्तिपूर्ण-| कथाकल्पनास्वप्रतिहतवैदुष्या आसन् बौद्धलेखकाः । २-"त्रिष्वेव त्वविनाभावादिति यद्धर्मकीर्तिना। प्रत्यज्ञायि प्रतिज्ञेयं हीयेताऽसौ न संशयः॥" (बृहदारण्यकोपनिषद्वार्तिकम् ।।
३-यद्यपि तत्संप्रदायग्रन्थेषु गतकल्यब्द-३८८९ (विक्रमसंवत् ८४५, ई. स. ७८८) रूपः शंकराचार्याणां जन्मसमयो निरूपितः ।। यथा शंकरमन्दारसौरभे
For Private & Personal Use Only
X
Jain Education
w.jainelibrary.org