SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Jain Education In " विद्याधरकुलतिलकाचार्यजिनदत्तशिष्यस्य " " एयं जिणदत्तायरियस्स ” – इत्यादिभिर्जिनभद्रशिष्यत्वनिराकरणपरैर्हरिभद्रसूरिवचनैरेव निराकृतम् । अत्र हरिभद्रसूरीणां सत्तासमय निर्णयप्रसङ्गे बौद्धाचार्यधर्मकीर्तेः कालनिरूपणमप्यावश्यकम् । हरिभद्रसूरयो हि शास्त्रघातसमुच्चयाऽनेकान्तजयपताकावृत्तिप्रभृतिषु स्वीयग्रन्थेषु धर्मकीर्तेर्नामग्रहणमनेकशोऽकार्षुः । एतद्व्यवहारवशेन पण्डित -सतीशचन्द्रादिभिर्निर्धारितो धर्मकीर्तेरनेहाः पट्टावल्यादिषु प्रसिद्धायां विक्रमाब्द ५८५ रूपायां हरिभद्रसूरिकालविनिश्चितौ महतीं विरोधबाधामुपढौकयति । पण्डित सतीशचन्द्रमहो| दयस्य कथनानुसारेण ६३५ - ६५० तमखिष्टाव्दासन्नो धर्मकीर्तेः सत्तासमयः । परमेतन्निर्णय सत्यतायामदृढ श्रद्धा वयम् । यद्वृत्ताधारेणा | नन्तरोक्तः समयो विनिश्चितस्तद्वृत्तं यथार्थं स्यादिति हि मनो नाङ्गीकुरुते । कुमारिलस्य धर्मकीर्ति प्रति पितृव्यता, सौगतवेशत्यागपूर्वकं धर्मकीर्तेर्ब्राह्मणकुमारिलाभ्यर्णे तदीयमतशास्त्राध्ययनं पञ्चाद् वादे धर्मकीर्तिना पराजितस्य कुमारिलस्य बौद्धधर्मस्वीकारः इत्येवमादयस्त १ - " तन्निवृत्तौ न चोपायो विनातीन्द्रियवेदनम् । एवं च कृत्वा साध्वेतत् कीर्तितं धर्मकीर्तिना ॥" (- " शास्त्रकार्तासमुच्चय - स्तबक १० लो० २४ पृ० ३७२ ) " उक्तं च धर्मकीर्तिना न तत्र किञ्चिद् भवति न भवत्येव केवलम् । " ( अनेकान्तजयपताका - परिच्छेद २ पृ० ९० ) " आह च न्यायवादी धर्मकीर्तिर्वार्त्तिके - " ( - अनेकान्तजयप० प० ३ पृ० १७७ ) For Private & Personal Use Only ww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy