________________
ग्रन्थकार
परिचयः
॥२९॥
“सो सिद्धतगुरुपमाणनाएण जस्स हरिभद्दो (१)। बहुगंथसत्थवित्थरपयडसवत्थो (8)॥" दिन्नगणिक्षमाश्रमणात् चतुर्थपट्टधरो भास्वामिनश्च शिष्यः सिद्धसेनगणिरपि-यस्य सत्ताधारभूतः समयः पाश्चात्यैरेतद्देशीयैश्च विद्व| द्भिर्विक्रमस्य षष्ठाब्दशतीप्रान्तभागोऽभ्युपगम्यते-तत्त्वार्थवृत्तौ "संज्ञिनः समनस्काः” एतत्सूत्रव्याख्याने हारिभद्रीयनन्दीव्याख्यानस्य "हेतु-काल-दृष्टिवादोपदक्रममुत्तरोत्तरविशुद्धमपहाय किं कारणं कालिक्यादौ व्यवस्थापिते"त्यादिकमंशं प्रमाणत्वेनोपन्यस्यम् सूरीणामेषां प्राचीनत्वं साधितवान् । तथा च तत्रत्यं स्थलम्---"निरूपितमिदं नन्द्यां सूत्रव्याख्याने हेतुकालदृष्टिवादोपदेशक्रममुत्तरोत्तरविशुद्धमपहाय किं कारणं कालिक्यादौ व्यवस्थापिते' त्येवमाक्षिप्तेऽभिहितमुत्तरं संश्यसंज्ञीति ।"
पाश्चात्यदेशीयो याकोबीपण्डितस्तु हरिभद्रसूरीणां जिनभद्र शिष्यत्वं जिनभद्राणां च साध्यमानसमयादर्वाग्भवत्वमुररीकुर्वन्निदं द्वितीयमतं विप्रतिपद्यते, स्वीकरोति च सिद्धर्षिसमसमयभवत्वप्रतिपादनपरमाद्यमेव पक्षम् । तदिदं पूर्वमेव-"आचार्यजिनभटस्य हि"|
॥२९॥
१-"स सिद्धान्तगुरुप्रमाणन्यायेन यस्य हरिभद्रः । बहुग्रन्थसार्थविस्तरप्रकटसर्वार्थः (१) ॥"
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org