________________
ग्रन्थकार
॥ २८ ॥
Jain Education International
गुवाल्यां मुनिसुन्दरसूरयः -
"अभूद् गुरुः श्रीहरिभद्रमित्रं श्रीमानदेवः पुनरेव सूरिः । यो मान्द्यतो विस्मृतसूरिमन्त्रं लेभेऽम्बिकाssस्यात्तपसोज्जयन्ते ॥”
अञ्चल-पौर्णमिकगच्छपट्टावल्यो:
“विद्यासमुद्रहरिभद्रमुनीन्द्रमित्रं सूरिर्बभूव पुनरेव हि मानदेवः । मान्द्यात् प्रयातमपि योऽनघसूरिमन्त्रं लेभेऽम्बिकामुखगिरा तपसोज्जयन्ते ॥" तपागच्छ जीर्णपट्टावल्याम्
“२७ श्रीमानदेवसूरिः, अम्बिकावचनाद् विस्मृतसूरिमत्रं लेभे । याकिनीसूनुहरिभद्रसूरिस्तदा जातः । तच्छिष्यौ हंस- परमहंसौ ।”
१ - अस्या रचनाकालस्तु ग्रन्थकारेणेत्थमुपन्यस्तः
"रस - रस- मनुमितवर्षे १४६६ मुनिसुन्दरसूरिणा कृता पूर्वम् । मध्यस्थैरवधार्या गुर्वालीयं जय श्रीद्धा ॥ ९३ ॥" २–कर्तृनामविरहितापि सुमतिसाधुसूरिपर्यन्ततपागच्छीयाचार्यनामावलीविभूषितत्वेन तत्समयलिखितेयमिति संभाव्यते ।
For Private & Personal Use Only
परिचयः
॥ २८ ॥
www.jainelibrary.org