________________
द्वितीयपक्षे पुनरुपलभामहे विश्वसनीयप्रमाणोपसंग्रहं विबाधकप्रमाणविरहं च, तथा हि
श्रीमदभयदेवसूरयः पञ्चाशकटीकाप्रारम्भे-"इह हि विस्फुरन्निखिलातिशयधामनि दुःषमाकालविपुलजलदपटलावलुप्यमानमहिमनि नितरामनुपलक्ष्यीभूतपूर्वगतादिबहुतमग्रन्थसार्थतारतारकानिकरे पारङ्गतगदिताऽऽगमाम्बरे पटुतमबोधलोचनतया सुगृहीतनामधेयो भगवान् श्रीहरिभद्रसूरिस्तथाविधपुरुषार्थसिद्यर्थिनामपटुदृष्टीनामुन्नमितजिज्ञासाबुद्धिकन्धराणामैदयुगीनमानवानामात्मनोपलक्ष्यमाणान् विवक्षितार्थसा
र्थसाधनसमर्थान् कतिपयप्रवचनार्थतारतारकविशेषानुपदिदर्शयिषुः पञ्चाशद्गाथापरिमाणतया पञ्चाशकाभिधानानि प्रकरणानि चिकीर्षुः..." ___ स्पष्टमेवाऽऽनेन रूपकबन्धेन भगवतां हरिभद्रसूरीणां समये पूर्वश्रुतस्य विलुप्यमानाऽवस्था, तां विप्रकीर्णदशामनुभवतस्तस्य कतिपयांशोपसंग्रहेण पञ्चाशकादिग्रन्थनिर्माणं च निवेद्यते, अथ चेदं तेषां विक्रमस्य षष्ठशतके एव विद्यमानत्वे संघटते नाऽन्यत्र । किंच, वीरप्रभोः सप्तविंशे पट्टे समारूढस्य उपरितनसमयाधारकस्य द्वितीयमानदेवसूरेमित्रत्वेन प्रकृतहरिभद्रसूरीन् वर्णयन्यनेके ग्रन्थकाराः, पट्टावल्यादिवचनान्यपि एतन्मतानुकूलानि । तथा च क्रियारत्नसमुच्चये गुणरत्नसूरयः
“ख्यातः श्रीहरिभद्रमित्रमभवत् श्रीमानदेवस्ततः" ॥ १-अस्य निर्माणकालोपदेशकं पर्व पूर्वमुपदिष्टम् (प० ११ पृ० १)।
Sorrrrrrr
Jain Education
For Private & Personel Use Only
Dilwww.jainelibrary.org