________________
ग्रन्थकार
॥ २७ ॥
Jain Education In
6
हिनैरनागतमेव तैर्ज्ञातः समस्तोऽपि मदीयवृत्तान्तः " - इत्यनेन साध्यमानं विशिष्टज्ञानवत्त्वमसंगतमेवाऽऽपद्येत, आगमपरिकर्मितमतीनामपि पुरोवर्तिप्राणिनिकरस्य योग्यताया लक्षकत्वाभिधानात् । एतेन 'अनागतम्' इत्यस्य बौद्धपुरानागतं, जैनमतानमिज्ञं, बौद्धशास्त्रपरि| भावितमतिर्भविष्यतीत्यनागतकालं, द्वाविंशवारं बौद्धलोकादनागतम्, असंपूर्णबोधं वा इत्याद्यर्थविकल्पनमपि निराकृतं भवति, "कालव्यवहितैः" इति वचनात्, सर्वस्वकीयवृत्तान्तान्वयिक्रियाविशेषणत्वेनाऽनागतशब्दप्रयोगाच्च उक्त विकल्पानुपपत्तेः ।
एवं प्रभावकचरित्रे प्रभाचन्द्रसूरिभिः सिद्धर्षिमुखेनोपवर्णितं हरिभद्रसूरीणां पूर्वसूरित्वमप्यन्त्राऽनुसंधेयम्, तच्चेदम्—
"का स्पर्द्धा समरादित्यकवित्वे पूर्वसूरिणा । खद्योतस्येव सूर्येण मादृग्मन्दमतेरिह ॥ "
एतेन हरिभद्रसूरेः सिद्धर्षे चाऽभिन्नं समयं निरूपयन् पट्टावलीपाठोऽपि विबाधितो भवति । तेनोल्लिखितं विजयानन्दसूरिपरम्पराशिव्यत्वमपि न घटते एतेषु । एते हि भगवन्तो विद्याधरकुलाऽलङ्काराणां जिनदत्तसूरीणां शिष्या इति पूर्वमेव साधितम् । विजया ( जया ) नन्दसूरिपरम्परा शिष्यत्वेन वर्ण्यमानहरिभद्रसूरयश्च चन्द्रकुलपरम्परायां लब्धप्रतिष्ठा इति स्पष्टमेव खरतरजिनरङ्गीय पट्टावल्यादिसाधनैरवबुध्यते । १०८८ मितविक्रमवर्षे विद्यमानाज्जिनेश्वरसूरेरध स्तनषष्ठपट्टधरतया निरूप्यमाणाश्चैते विक्रमस्य नवमशतकप्रान्तभवा इत्यनुमा-४ ॥ २७ ॥ नमपि नाऽसंगतिमङ्गति । इत्थं च प्रबन्धकोशादिषु वर्णितं हरिभद्रसूरीणां सिद्धर्षिसमानसमयभवत्वमपि सकारणमापद्यते । अयं पुनस्तत्र भ्रमो यत् सिद्धर्षिकथासंबन्धित्वेन ललितविस्तरादिकृत्त्वेन च तेऽवर्ण्यन्त इति । दुर्निवारश्वाऽयं नामसादृश्यादिनिबन्धनश्छद्मस्थानामिति ।
परिचयः
For Private & Personal Use Only
v.jainelibrary.org