________________
निजात्मानमङ्गीकुर्वता तस्य भगवदवलोकनयोग्यत्वदर्शकं धर्मबोधकराभिधानं महानसनियुक्तं च विशिष्टज्ञानं स्वमागोंपदेशकमादर्श| यताऽपि तेन स्वधर्मबोधकराणां हरिभद्रसूरीणां स्वस्मात् पूर्वभवत्वमावेदितम् । तथा च तत्रत्यपाठलेशः- “यस्तु तत्र नगरे
निष्पुण्यको नाम द्रमकः कथितः सोऽत्र संसारनगरे सर्वज्ञशासनप्राप्तेः पूर्व पुण्यरहिततया यथार्थाभिधानो मदीयजीवों द्रष्टव्यः ।। 8| यथा च तां महाराजदृष्टिं तत्र रोरे निपतन्ती धर्मबोधकराभिधानो महानसनियुक्तो निरीक्षितवान् इत्युक्तं तथा परमेश्वरावलोकना
मज्जीवे भवन्ती धर्मबोधकरणशीलो धर्मबोधकर इति यथार्थाभिधानो मन्मार्गोपदेशकः सूरिः स निरीक्षते स्म । तथाहिसध्यानबलेन विमलीभूतात्मानः परहितैकनिरतचित्ता भगवन्तो ये योगिनः पश्यन्त्येव देशकालव्यवहितानामपि जन्तूनां छद्मस्थावस्थायामपि वर्तमाना दत्तोपयोगा भगवदवलोकनायोग्यता, पुरोवर्तिनां पुनः प्राणिनां भगवदागमपरिकर्मितमतयोऽपि योग्यतां लक्षयन्ति, तिष्ठन्तु विशिष्टज्ञाना इति । ये च मम सदुपदेशदायिनो भगवन्तः सूरयस्ते विशिष्टज्ञाना एव, यतः कालव्यवहितैरनागतमेव तैतिः | | समस्तोऽपि मदीयवृत्तान्तः । स्वसंवेदनसिद्धमतदस्माकमिति ।" निर्दिष्टोपनयसंदर्भस्य हरिभद्रवर्णनपरत्वं च प्रन्थकारेणैवोपदर्शितं तत्प्रान्तभागनिबद्धेनाऽमुना श्लोकेन
“आचार्यहरिभद्रो मे धर्मबोधकरो गुरुः । प्रस्तावे भावतो हन्त स एवाद्ये निवेदितः ॥" एवं च हरिभद्रसूरीणां सिद्धर्षिसमसामयिकत्वे-“ये च मम सदुपदेशदायिनो भगवन्तः सूरयस्ते विशिष्टज्ञाना एव यतः कालव्यव
- SSC-CCCCCORRC-CRACK
-964-6
Jain Education
ForPrivate sPersonal use Only
oldw.jainelibrary.org.