________________
ग्रन्थकार
॥ २६ ॥
“लघुक्षेत्र समासस्य वृत्तिरेषा समासतः रचिताऽबुधबोधार्थ श्रीहरिभद्रसूरिभिः ॥
पञ्चाशीतिकवर्षे विक्रमतो व्रजति शुक्लपञ्चम्याम् । शुक्रस्य शुक्रवारे पुष्ये शस्ये भनक्षत्रे ॥"
अथैतन्मतद्वयमपि साधक-बाधकप्रमाणपरिचालनपुरस्सरं पर्यालोचनामुपस्थाप्यते । तत्र प्रथमोपन्यस्तं कथानकद्वितयं पट्टावलीपाठश्च हरिभद्रसूरिसमीपे सिद्धर्षेर्दीक्षाप्रतिपत्तिमनुमन्यते, ध्वनयति चैवं हरिभद्रसमयं सिद्धर्षिकालादभिन्नस्वरूपम् । एतच न केनापि पुराणविदुषाऽनुज्ञायते । विबाधितं च मन्तव्यमिदं सिद्धर्षिवचनेन । स हि गर्गर्षीनेवाङ्गीकरोति स्वदीक्षादातृत्वेन न तु हरिभद्रसूरीन् । तथा चेदमुपमितिभवप्रपश्चायां तद्वचः
“सद्दीक्षादायकं तस्य स्वस्य चाहं गुरुत्तमम् । नमस्यामि महाभागं गर्गर्षिमुनिपुङ्गवम् ॥” एवं हरिभद्रसूरीणां स्वसमकालभवत्वमपि सिद्धर्षिणैवोपन्यस्तेन
“अनागतं परिज्ञाय चैत्यवन्दनसंश्रया । मदर्थैव कृता येन वृत्तिर्ललितविस्तरा ॥”
— इत्युपमितिभवप्रपञ्चापद्येन निरस्तं भवति । अपि च, निजोपमितिभवप्रपश्चायां प्रथमप्रस्तावे द्रमकरूपेण वर्णितं निष्पुण्यकजन्तुं १ –जेसलमेरुदुर्गस्थबृहज्ज्ञानकोशे हरिभद्रसूरिकृतकतिपयलघुग्रन्थानां प्राचीनताडपत्राणि वर्तन्ते । तत्र हरिभद्रसूरिरचितायां लघुक्षेत्रसमासवृत्ताविदं श्लोकद्वयं दृश्यते । अस्यार्थश्च 'विक्रमतः पंचशताधिकपञ्चाशीतिके वर्षे वृत्तिरियं निर्मिता' इत्येव प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
परिचयः
॥ २६ ॥
www.jainelibrary.org