________________
Jain Education Inte
गादीनामभावात् जन्मादीनामसंभवाच्च तथा अन्यावाधातः खलु शाश्वतसौख्यमेव, तुरेवकारार्थः, सिद्धा| नामिति गाथासंक्षेपार्थः ॥ १३७७ ॥ प्रपञ्चतः स्वयमेवार्थः (ह-)
रागो दोसो मोहो दोसाभिस्तंगमादिलिंग त्ति । अतिसंकिलेसरूवा हेतू चिय संकिलेसस्स ॥ १३७८ ॥
राग द्वेषो मोह इत्येते दोषा अभिष्वङ्गादिलिङ्गाः, अभिष्वङ्गलक्षणो रागोऽप्रीतिलक्षणो द्वेषः अज्ञानलक्षणो मोह इति, अतिसंक्लेशरूपास्तथानुभवभावात्, तथा हेतवोऽपि संक्लेशस्य, क्लिष्टकर्मनिबन्धनत्वात् ॥ १३७८ ॥ एतेऽभिभूयाणं संसारीणं कतो सुहं किंचि ? |
जन्मजरामरणजलं भवजलहिं परियडंताणं ॥ १३७९ ॥
एतैः - रागादिभिरभिभूतानाम् - अस्वतत्रीकृतानां संसारिणां सत्त्वानां कुतः सौख्यं किंचित् ?, नैव किंचिदपीत्यर्थः । किंविशिष्टानामित्याह - जन्मजरामरणजलं भवजलधिं-संसारार्णवं पर्यटतां-भ्रमतामिति ॥ १३७९ ॥ एतदभावे सुखमाहरागादिविरहतो जं सोक्खं जीवस्स तं जिणो मुणति ।
For Private & Personal Use Only
Wainelibrary.org