SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter एवं सवण्णु सिद्धे णो छिन्नमूलदोसो वि । पावति एव भiतस्स अहिगमे तुल्लदोसो तु ॥ १३७३ ॥ एवम् उक्तेन प्रकारेण सर्वज्ञत्वे सिद्धे सत्यागमस्य छिन्नमूलत्वदोषोऽपि परैरासज्यमानो न प्राप्नोति, तस्य सर्वज्ञमूलत्वात् । अपित्वेवं सर्वज्ञमूलमन्तरेणेत्यर्थः आगमं भणतः - प्रतिपादयतः परस्यापि तदर्थाधिगमे तुल्य एव छिन्नमूलत्व - लक्षणो दोषः प्राप्नोति, तथाहि-न सर्वज्ञमन्तरेण वचनस्यातीन्द्रियार्थप्रतिपादनशक्तिरवगन्तुं शक्यते, ततः सर्वज्ञानभ्युपगमे वेदार्थाधिगमः छिन्नमूल एवेति ॥ १३७३ ॥ कैश्विदेव परिग्रहादित्यत्र प्रतिविधानमाह - केहिंचि परिग्गहितो पतणुयकम्मेहिं एत्थ को दोसो ? | वेदस्स विणिच्चत्तं सव्वेसिमसंमतं चैव ॥ १३७४ ॥ यदि नाम कैश्चिदेव प्रतनुकर्मभिरेष आगमः परिगृहीतस्ततोऽत्र - कैश्चिदेव परिग्रहे को दोषो ?, नैव कश्चित्, नहि कल्पपादपः सर्वैरेव प्राप्यत इति । यदपि विगानादित्युक्तं तदपि न समीचीनम्, वेदेऽपि तस्य समानत्वात् । तथा चाह - 'वेदेत्यादि' वेदस्यापि नित्यत्वम् - अपौरुषेयत्वं सर्वेषामसंमतमेव, कणादादीनां भूयसां तथानभ्युपगमात्, तद्यदि विगानमप्रामाण्यनिमित्तं ततो वेदस्याप्यप्रामाण्यमव्याहतप्रसरमेवेत्यलमतिप्रसङ्गेन ॥ १३७४ ॥ उपसंहरन्नाह - For Private & Personal Use Only ainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy