SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥४४०॥ भणितं पण्णत्तीए पण्णवणादीसु जह जिणो भगवं । सर्वज्ञसि दशौ क्रमेतजं जाणती ण पासति तं अणुरयणप्पभादीणं ॥ १३५१ ॥ रोपयोगिते भणितमपि चैतत् अनन्तरोदितं प्रज्ञप्तौ प्रज्ञापनादिषु च, यथा-यं समयं केवली जानाति अण्वादिकं रत्नप्रभादिकं च न तमेव समयं पश्यतीति । 'अणुरयणप्पभाईण' मित्यत्र प्राकृतत्वात् द्वितीयाथै षष्ठी। तत्र क्रमेणैव केवलज्ञानदर्शनयोरुपयोगो न युगपदिति स्थितम् ॥ १३५१ ॥ सांप्रतं ये केवलज्ञानदर्शनाभेदवादिनस्तन्मतमुपन्यस्यन्नाह ___जह किर खीणावरणे देसण्णाणाण संभवो ण जिणे । उभयावरणातीते तह केवलदंसणस्सावि ॥ १३५२ ॥ यथा किलेत्याप्सोक्तौ, क्षीणावरणे भगवति जिने देशज्ञानानां-मत्यादीनां न संभवः, तथा उभयावरणातीते-केवलज्ञानदर्शनावरणातीते भगवति केवलदर्शनस्यापि न संभवः । कथमिति चेत् उच्यते-इह तावत् युगपदुपयोगद्वयं न ॥४४०॥ जायते, सूत्रे तत्र तत्र प्रदेशे निषेधनात्, नचैतदपि समीचीनं, यत्तदावरणं क्षीणं तथापि तन्न प्रादुर्भवतीति, ऊर्द्धमपि तदभावप्रसङ्गात् । ततः केवलदर्शनावरणक्षयादुपजायमानं केवलदर्शनं सामान्यमात्रग्राहि केवलज्ञाने एव सर्वा in Education intomation For Private & Personel Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy