________________
भण्णति ण एस णियमो जुगवुप्पण्णेण जुगवमेवेह ।
होयत्वं उवओगेण एत्थ सुण ताव दिटुंतं ॥ १३४९ ॥ भण्यते-अत्रोत्तरं दीयते-न एष नियमो, यदुत-शक्त्यपेक्षया युगपदुत्पन्नेनापि ज्ञानेन युगपदेवेहोपयोगेन-उपयोगरूपतयाऽपि भवितव्यमिति । कुत इति चेत् ?, तथाऽदर्शनात् । आह च-एत्थ सुण ताव दिद्रुतं' अत्र-अस्मिन् विचारप्रक्रमे शृणु तावत् दृष्टान्तम् ॥ १३४९ ॥ तमेव दर्शयति
जह जुगवुप्पत्तीए वि सुत्ते सम्मत्तमतिसुतादीणं ।
___णत्थि जुगवोवओगो सल्वेसु तहेव केवलिणो ॥ १३५० ॥ यथा सम्यक्त्वमतिश्रुतादीनामादिशब्दादवधिज्ञानपरिग्रहः युगपदुत्पत्तावपि सूत्रे-आगमे अभिहितायां न सर्वे| वेव मत्यादिषु युगपदुपयोगो भवति, "जुगवं दो नत्थि उवयोगा" इति वचनात्, तथैव केवलिनोऽपि शक्त्यपेक्षया युगपत्केवलज्ञानदर्शनोत्पत्तावपि न द्वयोरपि युगपदुपयोगो भविष्यतीति ॥१३५० ॥ अमुमेवार्थ सूत्रेण संवादयन्नाह१ युगपद् द्वौ न स्त उपयोगी ।
FACHECRUARMAC-6-064
en Educ
For Private Personel Use Only
w.jainelibrary.org