________________
धर्मसंग्रहणीवृत्तिः
॥४३८ ॥
Jain Education
संते व अंतरायक्खयम्मि पंचप्पगारम्मि ॥ १३४२ ॥ सततं ण देति लभति व भुंजति उवभुंजती व सवण्णू । कमि देइ लभति व भुंजति व तहेव इहई पि ॥ १३४३ ॥
अपिरवधारणे । अथ नैव एवम् उक्तप्रकारेण मन्यसे क्षायोपशमिकक्षायिकयोर्दृष्टान्तदान्तिकभावासंभवात्, ततः शृणु-यथा क्षयकार्यमपि ज्ञानं दर्शनं वाऽवश्यमनवरतं न प्रवर्त्तते इति यथैव खलु क्षीणान्तरायकोऽर्हन् सत्यप्यन्तरायक्षये पञ्चप्रकारे, इहान्तरायकर्मणो दानान्तरायादिभेदेन पञ्चप्रकारत्वात् तत्क्षयोऽपि पंचप्रकार उक्तः, सततं न ददाति लभते वा भुङ्क्ते उपभुङ्क्ते वा सर्वज्ञः, किंतु कार्ये उत्पन्ने सति ददाति लभते वा भुङ्क्ते वा, उपलक्षणमेतत् उपभुङ्क्ते वा तथैव इहापि - केवलज्ञानदर्शनविषये सत्यपि तदावरणक्षये न युगपत्तदुपयोगसंभवः, तथाजीवखाभाव्यादिति ॥ १२४२ – १३४३ ॥ स्यादेतत् यदि पंचविधान्तरायक्षयेऽपि भगवान्न सततं दानादिक्रियासु प्रवर्त्तते ततः किं तत्क्षयस्य फलमित्यत आह-
दिंतस्स लभंतस्स य भुंजंतस्स य जिणस्स एस गुणो । खीणंतराइयत्ते जं से विग्धं ण संभवति ॥ १३४४ ॥
For Private & Personal Use Only
केवलयुगले क्रमयु
गपदेकोप
योगता
॥४३८ ॥
Jainelibrary.org