SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ जिनस्य-क्षीणसकलघातिकर्मणः क्षीणान्तरायत्वे सत्येष गुणो जायते, यदुत-से' तस्य जिनस्य ददतो लभमानस्य भुञानस्य चकारस्यानुक्तसमुच्चयार्थत्वादुपभुानस्य च यद्विघ्नो न संभवति । प्राकृतत्वाच विघ्नशब्दस्य नपुंसतकनिर्देशः ॥ १३४४ ॥ अमुमेव गुणं प्रकृतेऽपि योजयन्नाह उवउत्तस्सेमेव य णाणम्मि व दंसणम्मि व जिणस्स । खीणावरणगुणोऽयं जं कसिणं मुणति पासति वा ॥ १३४५॥ एवमेव-दानादिक्रियासु प्रवृत्तस्येव ज्ञाने दर्शने चोपयुक्तस्य केवलिनोऽयं क्षीणावरणगुणः-क्षीणावरणत्वे सति गुणः, यदुत-कृत्स्नं-लोकालोकात्मकं जगत् जानाति पश्यति, नतु जानतः पश्यतो विघ्नः संभवति ॥१३४५॥ वाद्याह पासंतो वि ण जाणइ जाणं व ण पासती जति जिणिंदो। एवं ण कदाचि वि सो सवण्णू सवदरिसी य ॥ १३४६ ॥ यदि पश्यन्नपि भगवान्न जानाति, दर्शनकाले ज्ञानोपयोगानभ्युपगमात् , जानन्वा यदि न पश्यति, ज्ञानोपयोगकाले दर्शनोपयोगानभ्युपगमात् , तत एवं सति न कदाचिदप्यसौ सर्वज्ञः सर्वदर्शी च प्राप्नोतीति ॥ १३४६ ॥ सिद्धान्तवाद्याह Jain Education inde For Private & Personal Use Only
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy