________________
Jain Education
मिच्छा छावट्टीसागरोवमाई खओवसमो ॥ १३४१ ॥
यदुक्तमितरथा आदिनिधनत्वं प्राप्नोतीति, तदसमीचीनम्, उपयोगकालमनपेक्ष्य लब्धिमात्रापेक्षया केवलज्ञानदर्शनयोः साद्यपर्यवसितत्वस्याभिधानात् मत्यादिषु षट्षष्टिसागरोपमाणामिव । यदप्युक्तम् - 'मिथ्या आवरणक्षय इति' तत्रापि भण्यते - यदि साद्यपर्यवसितं कालमुपयोगाभावत आवरणक्षयस्य मिथ्यात्वमापद्यते 'तो त्ति' | ततस्त्रिज्ञानिनो - मतिश्रुतावधिज्ञानवतो भिन्नमुहूर्त्तलक्षणोपयोगकालेऽपि मत्यादीनां यो नाम षट्षष्टिसागरोपमाणि यावत् क्षयोपशमः सूत्रेऽभिहितः स मिथ्या प्राप्नोति तावत्कालं मत्यादीनामुपयोगाभावात् युगपद्भावासंभवाच्चेति । यापि इतरेतरावरणता पूर्वमासंजिता साऽप्यसमीचीना, यतो जीवखाभाव्यादेव मत्यादीनामिव केवलज्ञानदर्शनयोर्युगपदुपयोग संभवस्ततः सा कथमुपपद्यते ?, मा प्रापदन्यथा मत्यादीनामपि परस्परमावरणताप्रसङ्गः । योऽपि निष्कारणावरणदोष उद्भावितः सोऽपि जीवस्वाभान्यादेव तथोपयोगप्रवृत्तेरपास्तो द्रष्टव्यः, अन्यथा मत्यादीनामपि प्रसज्येत, ||तेषामप्युत्कृष्टतः षट्षष्टिसागरोपमाणि यावत् तत्क्षयोपशमस्याभिधानात् तावत्कालं चोपयोगाभावादिति ॥ १३४१ ॥ वादिनो मतमाशय दूषयति
अहणवि एवं तो सुण जहेव खीणंतराइओ अरहा ।
For Private & Personal Use Only
www.jainelibrary.org