SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ Jain Education यतीतादिअभावोपज्जायावेक्खतो जुत्तो ॥ १३२० ॥ एवं सति द्रव्यपर्यायरूपत्वे सतीतियावत् अतीतानागतमपि रूपं कथंचित्तत्संबन्धवीजतया अस्ति द्रव्यस्य, ततो न यथोक्तप्रत्यक्षप्रवृत्त्यभावलक्षणदोषावकाशः, यच्चोक्तं- 'भावेऽतीतादि सो किह णु त्ति' तदपाकर्तुमाह-'नयेत्यादि' न च एवं सति अतीताद्यभावः - अतीतानागताभावो युक्तः, किंत्वयुक्त एव कुत इत्याह- पर्यायापेक्षातः । एतदुक्तं भवति - यद्यपि कथंचित्तत्संबन्धनिमित्ततया अतीतानागतमपि रूपं द्रव्यस्य विद्यते तथाप्युद्भूततथापरिणतिलक्षणपर्याय विनाशाद्यपेक्षया अतीतादित्वव्यवहारोऽपि न विरुज्यत इति ॥ १३२० ॥ उपसंहारमाहएवं वं सवं एवं चि गेहई तओ जम्हा | तीतादिसु सम्मं ववण्णं तस्स पच्चक्खं ॥ १३२१ ॥ एवंरूपं - मिथो भिन्नाभिन्नद्रव्यपर्यायस्वभावं सर्वे - सकलभुवनोदरवर्त्ति वस्तु एवमेव सकलातीतावस्थाजन्यतया सकलै प्यवस्थाजनकतया च यस्मात् 'तओ त्ति'सकः सर्वज्ञो गृह्णाति 'ता' तस्मादतीतादिषु - अतीतानागतेषु भावेपु तस्य - सर्वज्ञस्य प्रत्यक्षं सम्यक् उपपन्नमेवेतिस्थितम् ॥ १३२१॥ अभ्युपगम्यापि सर्वथाऽतीतानागतानामिदानीमभावं प्रकृते दोष (पा) भावमाह For Private & Personal Use Only w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy