________________
CARDA
M
न च सः-प्रमाणपञ्चकनिवृत्तिरूपस्तुच्छोऽभावो ज्ञातुं शक्यते, तस्य निरुपाख्यतया कर्मत्वशक्ति(त्य)योगात् ।। स्यादेतत् , अज्ञात एव सन् सोऽभावःस्वकार्य करिष्यतीति, यथेन्द्रियमिति। तत्राह-'नेत्यादि' न चाक्षमिव-इन्द्रियमिव अन्यथा-अज्ञात एव सन् कार्यम्-अभावपरिच्छेदकज्ञानलक्षणं करोति । किमित्याह-शक्तिविरहात एकान्ततुच्छतया कार्यजननशक्त्यभावात् । भावे वा अस्याः-कार्यजननशक्तरिष्यमाणे सोऽभावः कथमभावो भवेत् ?, नैव भवेदितिभावः, शक्तिसमावेशतो भावरूपतापत्तेः । अन्यच, अभावादभावपरिच्छेदकं ज्ञानं भवतीति । किमुक्तं भवति ?|भावान्न भवतीति, प्रसज्यप्रतिषेथस्य निवृत्तिमात्रात्मकस्य क्रियाप्रतिषेधमात्रनिष्ठत्वात्। ततश्चैवं कारणप्रतिषेधतोऽभावपरिच्छेदकस्य ज्ञानस्य निर्हेतुकत्वाभ्युपगमापत्तितः सदा सत्त्वादिप्रसङ्ग इति यत्किंचिदेतत् ॥१३०१॥ प्रतिषेधक एव परोक्त प्रमाणे हेतोर्विशेषविरुद्धतां दर्शयति
सो सो चेव ण होई पुरु(रि)सादित्ता तु देवदत्तो छ ।
एवं च विरुद्धोऽवि हु लक्खणतो होति एसो त्ति ॥ १३०२ ॥ 11 स:-विवक्षितो कर्द्धमानखाम्यादिः स एव न भवति-सर्वज्ञ एव न भवति, पुरुषादित्वात् , देवदत्तवत् । एवं च उक्ते-15
नव प्रकारेण लक्षणतो-'विरुद्धोऽसति काधन' इति विशेषविरुद्धलक्षणतो विरुद्धोऽप्येषः-पुरुषत्वादिको हेतुर्भवति ।
OSALOCRACROSSES
STMAL
Jain Education irani
For Private Personel Use Only
M
ainelibrary.org.