SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥४२४॥ Jain Education चेह यस्मात् दृष्टः श्रुतो वाऽर्थस्तदभावं - सर्वज्ञाभावं विना न संभवति, अपि तु संभवत्येवेत्यर्थः । तस्मान्नैतस्य सर्वज्ञःभावस्यार्थापत्तिरपि ग्राहिकेति ॥ १२९९ ॥ अभावपक्षमाह - जोऽविय पमाणपंचगणिवित्तिरूवो मतो अभावोति । सोविय जं णिरुवक्खो ण गमति ता निययणेयं तु ॥ १३०० ॥ योsपि च प्रमाणपञ्चकनिवृत्तिरूपों मतोऽभावः षष्ठप्रमाणाख्यः सोऽपि यत् - यस्मान्निरुपा रूपः - सकलाख्योपा| ख्याविकलः 'ता' तस्मान्निजं ज्ञेयं न गच्छति-न परिच्छिनत्ति, परिच्छित्तिर्हि ज्ञानस्य धर्मो नाभावस्येति । स्यादेतत्, | अभावपरिच्छेद कज्ञानजनकत्वमस्येष्यते न साक्षादभावपरिच्छेदकत्वं तेनोक्तदोषाभाव इति चेत्, न, तजनकत्वस्यानुपपत्तेर्न चास्य तज्जननशक्तिरस्ति एकान्ततुच्छत्वात् अन्यथा ततुच्छत्वविरोधात् ॥ १३०० ॥ अपिच, सोऽभावोज्ञातः सन् अभावपरिच्छेदकं ज्ञानं जनयेत् नाज्ञातो, नहि धूमः खज्ञानमन्तरेणाग्निविषयं ज्ञानं जनयति । ततः किमित्याह यसो तीरइ गाउं अक्खं व ण यऽन्नहा कुणति कज्जं । विरहा इमी (अव) भावे सो कहमभावोति ? | १३०१ ॥ For Private & Personal Use Only सर्वज्ञसिद्धिः ॥४२४॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy