SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥४२३॥ Jain Education सिद्धो चि सवण्णू पडिसेहो कह णु एतस्स ? ॥ १२९५ ॥ न च तत्सर्वविषयं प्रत्यक्षं युष्माकमिष्टम्, अनभ्युपगमात्, अभ्युपगमे च तस्य - सर्वविषयस्य प्रत्यक्षस्य ननु सिद्ध एव सर्वज्ञः, तद्वतः सर्वज्ञत्वात् । ततः कथं नु तस्य सर्वज्ञ (स्व) प्रतिषेधः १ ॥ १२९५ ।। अनुमानमधिकृत्याहअणुमाणवि तदभावणिच्छओ णेव तीरती काउं । तप्पडिबद्ध लिंगं जं णो पच्चक्खसंसिद्धं ॥ १२९६ ॥ अनुमानेनापि प्रमाणेन तदभावनिश्चयः - सर्वज्ञाभावनिश्चयो नैव कर्तुं शक्यते, कुत इत्याह- तत्प्रतिबद्धं सर्वज्ञाभावप्रतिबद्धं लिङ्गं यत् - यस्मात् न प्रत्यक्षसंसिद्धम्, तथाहि सर्वत्र सर्वदा च सर्वज्ञाभावस्य प्रत्यक्षतो निश्चयाभावे कथं तदविनाभावि लिङ्गं प्रत्यक्षतो निश्चेतुं शक्यत इति ? । अनुमानेन तु तदविनाभाविलिङ्गनिश्चयाभ्युपगमेऽनवस्थाप्रसक्तिः, तस्यापि लिङ्गबलेन प्रवृत्तेर्लिङ्गस्य च विवक्षितसाध्येन सह प्रतिबद्धस्यान्यतोऽनुमानान्निश्वेतव्यत्वात्, तस्यापि चान्यस्यानुमानस्यैवमेव प्रवृत्तिरिति ॥ १२९६ ॥ गम्मति ण यागमातो तदभावो जं तओ ण तविसओ । विहिपडिसेधपहाणो कज्जाकज्जेसु सो इट्ठो ॥ १२९७ ॥ For Private & Personal Use Only सर्वज्ञसिद्धिः ॥४२३॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy