SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ Jain Education सिव तस्सेवाभावा ततो णिवित्ती ण णिच्छितो सोऽवि । तडिसेह गमाणाभावा जं सो ण सिद्धो ति ॥ १२९३ ॥ स्वादेतत् तस्यैव सर्वज्ञत्वलक्षणस्य विपक्षस्याभावात्ततो- विपक्षात्सकाशाद्धेतोर्निवृत्तिरिति नानैकान्तिकतेति । अत्राह - 'मेत्यादि' में निश्चितः सोऽपि सर्वज्ञत्वलक्षणविपक्षाभावोऽपि । कुत इत्याह- 'तत्प्रतिषेषकप्रमाणाभावात्' सर्वज्ञप्रतिषेधकप्रमाणाभावात् यत् - यस्मात्सर्वज्ञाभावो न सिद्ध इति ॥ १२९३ ॥ तत्प्रतिषेधकप्रमाणाभावमेवाहपञ्चक्खणिवित्तीए तस्साभावो ण गम्मती चैव । जं सोवलद्धिलक्खणपसो नो होइ तुम्हाणं ॥ १२९४ ॥ प्रत्यक्ष निवृत्त्या तद्विषयं प्रत्यक्षमिन्द्रियजं न प्रवृत्तमितिकृत्वा तस्य सर्वज्ञस्याभावो न गम्यते एव, यस्मात्सर्वज्ञो न भवति युष्माकमुपलब्धिलक्षणप्राप्तः, सर्वथा तस्यानभ्युपगमात् न चानुपलब्धिलक्षणप्राप्तानां प्रत्यक्षनिवृत्त्या अभावः शक्य आपादयितुं, धर्मादीनामप्येवमभावापत्तेः । अपिच, सर्वदर्शिनो हि प्रत्यक्षं व्यावृत्तं देशादिविप्रकृष्टानामप्यभावं साधयति, तस्य सकलवस्तुविषयत्वात् ॥ १२९४ ॥ णय सवविसयसिद्धं पञ्चक्खं तस्स अब्भुवगमे य । For Private & Personal Use Only jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy