SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणीवृत्तिः ॥४१७॥ Jain Education विवरीतणु विसो जमणेगंतो ण होइ विवरीयो । बागपमाणविरहा भवतोऽविय सिद्धमेवेयं ॥ १२७४ ॥ विपरीतज्ञोऽपि न एषः - भगवान् भवति यस्मात्तेन भगवताऽनेकान्तो ज्ञातस्तस्योपदेशात्, स चानेकान्तो न भवति विपरीतो, बाधकप्रमाणविरहात्, एतच्चानेकान्तदर्शनं भवतोऽपि - मीमांसकस्य सिद्धमेवेति ॥ १२७४ ॥ अथोच्येत नञोऽत्र कुत्सार्थता विवक्ष्यते, यथा- कुत्सितं वचनमवचनमिति, ततो यदिह किमपि कुत्सितं तत्सर्वं जानाति नतु शोभनमित्यसर्वज्ञ इति, अत्राह जति वि ( ) स कुत्थियण्णू णरगादी एत्थ कुत्थिया चेव । ते जाणति च्चिय तओ एवं पि ण कोइ दोसो ति ॥ १२७५ ॥ यद्यपि च सः - भगवान् कुत्सितज्ञः साध्यते, एवमपि तथा न कश्चिद्दोषो यतोऽत्र - जगति नरकादयो भावाः कुत्सिता एव, तांश्च भगवान् जानात्येव, तथोपदेशात् । न च स केवलकुत्सितनरकादिभावस्वरूपज्ञ एव, स्वर्गापवग्र्गादीनामपि तेन परिज्ञानात्, तथा जन्तुभ्य उपदेशनादिति । स्यादेतत् किमनेन वाग्जालेन ?, निषेध एव नञोऽर्थः, ततश्च न सर्व जानातीति, किमुक्तं भवति १-न किंचित् जानातीति ॥ १२७५ ॥ एतदेव दूषयितुमाशङ्कमान आह For Private & Personal Use Only सर्वज्ञसिद्धिः ॥४१७॥ jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy