SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ACANCE अथ यागादिविधानं तेन न ज्ञातं, तस्यानुपदेशादिति किंचिज्ज्ञ इति । तत्राह-'मिच्छेत्यादि' मिथ्यारूपेण तदपियागादिविधानं हन्त निश्चितमेव-ज्ञातमेव । चो हेतौ । यस्मात्तेन-भगवता हिंसादय आदिशब्दात्तथाविधान्यङ्गाङ्ग (न्ययज्ञाङ्ग) भूतपातकविशेषपरिग्रहः भणिता-उक्ताः कुगतेः-नरकादिगतेहेतवः, ततो हेयरूपतया तदपि यागादि६ विधानं ज्ञातमेव ॥ १२७२ ॥ स्यादेतद्, न नोऽत्राल्पार्थता विवक्षिता, किंत्वन्यार्थता, यथा ब्राह्मणादन्योऽब्राह्मण इति, विरुद्धार्थता वा, यथा धर्मविरुद्धोऽधर्म इति, तथा चाह सवण्णुणो अहऽण्णो तस्स विरुद्धो व सो असवण्णू । जत्तो अण्णो जस्स य तओ विरुद्धो स सवण्णू ॥ १२७३ ॥ अथ यः सर्वज्ञादन्यो यो वा तस्य सर्वज्ञस्य विरुद्धः सोऽसर्वज्ञ इति मन्येथाः। अत्राह-'जत्तो इत्यादि' यतो-यस्मादवधिभूतात् 'तओ त्ति' सको विवक्षितः पुरुषोऽन्यो यस्य वा विरुद्धो ननु स एव सर्वज्ञः प्राप्नोति, तथा चास्माक-15 टू मिष्टसिद्धिरिति ॥ १२७३ ॥ अथोच्येत-न नोऽन्यार्थता विरुद्धार्थता वा, किंतु विपरीतार्थता, ततश्चासर्वज्ञ इति । किमुक्तं भवति-सर्व विपरीतं जानातीति, यथा-निशि बहलमनोहारिभासुरच्छायां प्रदीपशिखां विकसितमिदमतीव चारु चम्पकपुष्पमिति मन्यमानास्तत्र कीटपतङ्गाः पतन्तो विपरीतं जानन्तीत्यज्ञा उच्यन्ते, इत्येतदाशयाह RSONAL in Education For Private Personel Use Only
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy