________________
Jain Education
| आदिशब्दात् देशाद्यपेक्षया खतः प्रामाण्यभावाभावलक्षणस्वभावनानात्वाभावात् सर्वथा सर्वेषामेव प्रमाणकार्य कुर्या| दिति परिग्रहः । तस्मान्न स्वत एव प्रामाण्यम् । ततश्च स्थितमेतत् कथंचिन्नित्य आगमः, स्वत एव च कथंचित्तस्य प्रामाण्यं तस्माच्च सर्वज्ञस्यावगम इति ॥ १२६७ ॥ एतदेवोपसंहरति
एवं च गम्मइ जदा कहंचि णिच्चातो आगमातो सो । संपइ तदा ण जुत्तं जं वृत्तं पुवपक्खम्मि ॥ १२६८ ॥ अन्नं च गम्मइ तओ केण पमाणेण एवमाई उ । इतरेतरासओ वि हु फलभूयत्तेण नो तस्स ॥ १२६९ ॥
गाथा सार्था (र्धा) । एवं च सति यदा कथंचिन्नित्यादागमात् सः - सर्वज्ञो ज्ञायते तदा यत् भणितं पूर्वपक्षे- 'अन्नं च नज्जइ तओ केण पमाणेण इत्येवमादि' तन्न संप्रति युक्तमिति । यदप्युक्तम्- 'इयरेयरासओ वि हु दोसो अणिवारणिजो उत्ति' तदप्यसमीचीनम्, यत आह- इतरेतराश्रयोऽपि दोषो 'हु' निश्चितं न तस्य - सर्वज्ञस्य फलभूतत्वेन हेतुना भवति ॥ १२६८ - १२६९ ॥ एतदेव भावयन्नाह -
सुत्तस्स अत्थवत्ता सव्वण्णू सो य तम्मि फलभूतो ।
For Private & Personal Use Only
w.jainelibrary.org