________________
धर्मसंग्रहणीवृत्तिः
॥४१५॥
Jain Education In
यथा उलूकादीनां दिनकरकिरणाः खतः खच्छा अपि खदोषवशात्तमोरूपा भासन्ते, एवं वेदार्थोऽपि 'हु' निश्चितं केषांचित् श्रोतॄणां पापेन हेतुना न सम्यग्भासत इति ॥ १२६५ ॥ अत्राह -
णाते वि संसयादी कहं णु जायंति ? ते वि पावातो । तदभावे तदभावा सिद्धं परतो वि पामन्नं ॥ १२६६ ॥
भवत्वेतत्, किंतु ज्ञातेऽपि सम्यग्वायेऽर्थे ततो वेदात् कथं नु पुनः संशयादयो जायन्ते ?, न हि प्रदीपादिभिः प्रकाशिते घटादौ ज्ञाते पुनः संशयादयः प्रादुर्भवन्तोऽनुभूयन्ते इति । अत्राह - 'ते वि पावाओत्ति' तेऽपि संशयादयः पापादिति चेत् ? । ननु तर्हि तदभावे - पापाभावे तदभावात् संशयादीनामभावात् सिद्धं परतोऽपि वेदस्य प्रामाण्यमिति ॥ १२६६ ॥ अन्यच्च
एतेण तु सत एव तम्मि सइ सबहेव सबेसिं । कुज्जा पमाणकज्जं सहावभेदादिविरहातो ॥ १२६७ ॥
एकान्तेनैव तुरवधारणे, खत एव वेदस्य तस्मिन् - प्रामाण्ये सदा-सर्वदा सर्वेषामेव प्रमाणकार्य निश्चिताविपरीत प्रत्ययोत्पादन लक्षणं स वेदः कुर्यात् । । कुत ? इत्याह- 'स्वभावभेदादिविरहात्' नित्यतया स्वभावभेदाभावात्सदा कुर्यात्,
For Private & Personal Use Only
सर्वज्ञसिद्धिः
॥४१५ ॥
jainelibrary.org