________________
ततो न कश्चिद्दोष इति । अत्राह-को इत्यादि' ननु कोऽत्र-वेदप्रामाण्यविचारविषये सम्यग्वादी? को वा न?, नास्ति इह-सम्यग्वादमिथ्यावादनिर्णयविषये मान-प्रमाणमिति यत्किंचिदेतत् ॥ १२५९ ॥ अपिच
एगतेण सतो च्चिय पामन्ने जं ततो कुविण्णाणं ।
तस्स चिय पमाणत्तं पावइ जह सम्मणाणस्स ॥ १२६०॥ | एकान्तेन स्वत एव वेदस्य प्रामाण्ये सति यत् कुविज्ञानं तत एव वेदादुपजायते तस्यापि प्रामाण्यं प्राप्नोति, | यथा सम्यगज्ञानस्य, उभयत्रापि विशेषाभावात् ॥ १२६० ॥
अह तं ण तओ इतरं पिणेव वक्खाणिदोसतो तं चे।
इयरं पि किन्न गुणतो ? एवं सति णिप्फलो वेदो ॥ १२६१ ॥ अथ तत्-कुविज्ञानं न ततो-बेदादुपजायते तेनादोष इति । नन्वेवं सति इतरदपि-सम्यगज्ञानं नैव ततो-वेदादुपजायते । तथाहि-उभयमप्येतत् विवक्षितवेदवाक्यश्रवणान्वयव्यतिरेकानुविधायि, तद्यदि कुविज्ञानं न ततो वेदादिष्यते तर्हि सम्यग्ज्ञानमपि मा तत एषिष्ट, विशेषाभावात् । अथ तत् कुविज्ञानं व्याख्यातृदोषत उपजायते न वेदात् ततो दोपाभाव इति।यद्येवं तर्हि इतरदपि-सम्यग्ज्ञानं व्याख्यातृगुणत एवोपजायते, न वेदादिति किन्नेष्यते ?,
COCCASSAMANASALE-SCALCCASS
Jain Education
a
l
For Private & Personal Use Only
KIMw.jainelibrary.org