SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह णीवृत्तिः ॥४१३॥ च्युतानुत्पन्नस्थिरैकखभावतया सदा वा भवेत् न वा कदाचिदपि, तथा च सति प्रत्यक्षविरोध इति । तस्माद्वर्णात्मक आगमो नित्यानित्य एवेति स्थितम् ॥ १२५७ ॥ ज्ञानादिपक्षानधिकृत्याह णाणं विसओ अण्णो व कोइ सवाई उभयरूवाइं। भावातो च्चिय मिच्छा एगंतेणेव सो णिच्चो ॥ १२५८ ॥ | ज्ञानं विषयोऽन्यो वा कश्चित् भवतु, सर्वाण्यपि एतानि उभयरूपाण्येव नत्वेकान्ततो नित्यरूपाणि । कुत इत्याह-'भावाओ चिय' भावत्वादेव-वस्तुत्वादेवेतियावत् । न कान्तनित्यं वस्तु घटते, यथाभिहितं प्राक् परिणाम्यात्मसिद्धौ । तस्मादेकान्तेनैव स आगमो नित्य इति मिथ्या ॥ १२५८॥ तदेवमेकान्ततो नित्यत्वमपाकृत्य सांप्रतं खत एव प्रामाण्यमपाचिकीर्षुराह पामन्नं पि सतो च्चिय वेदस्स ण संगतं विगाणातो। को एत्थ सम्मवाई को वा णो ? णत्थि इह माणं ॥ १२५९ ॥ प्रामाण्यमपि वेदस्य न स्वत एव संगतम् । कुत इत्याह-विगानात्-विप्रतिपत्तेः । तथा च केचिद्वेदस्य स्वत एव | प्रामाण्यं मन्यन्ते, केचिदन्यथेति । स्यादेतत् , यः स्वत एव प्रामाण्यं वेदस्य न मन्यते स मिथ्यावादीति किं तेन ?, ॥४१॥ Jain Education ine For Private & Personel Use Only Amjainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy