________________
वा कश्चिदिति विकल्पचतुष्टयम् । किंचात इत्याह-सर्वेष्वपि पक्षेषु सः-आगमो नित्यानित्य एव प्राप्नोति, नत्वेकान्ततो नित्यः ॥ १२५५ ॥ एतदेव भावयति
णोवावारे सद्दो सुबइ जं तेण वण्णदत्वाइं ।
तेण परिणामिताई णिचाणिचो तओ स भवे ॥ १२५६ ॥ नृव्यापारे सति शब्दो यत्-यस्मात्कारणात् श्रूयते नत्वन्यथा, तेन कारणेन इदं विज्ञायते यदुत-वर्णयोग्यानि द्रव्याणि गृहीत्वा तेन पुरुषेण वर्णरूपतया परिणामितानि, ततश्च सः-आगमो वर्णात्मकोऽभ्युपगम्यमानो नित्यानित्य एव, नत्वेकान्ततो नित्य इति ॥ १२५६ ॥ अथ नित्या एव वर्णाः केवलं नृव्यापारेणाभिव्यज्यन्त इति नोक्तदोषप्रसङ्ग इत्याशङ्कामपनेतुमाह
णियमा कस्सइ धम्मस्स अवगमे कस्सई य उप्पाते।
होइ अभिवत्ति णो उण एगसहावस्स भावस्स ॥ १२५७ ॥ यस्मात्कस्यचित् धर्मस्य-स्वभावस्थानुपलभ्यत्वलक्षणस्थापगम-विनाशे सति कस्यचिच खभावस्योपलम्भयोग्यतालक्षणस्योत्पादे सति नियतकालमभिव्यक्तिः-उपलभ्यमानखरूपता भवति, न पुनरेकखभावस्य सतः, तस्य हि अप्र
Jain Education in
For Private & Personel Use Only
Carjainelibrary.org