________________
Jain Education
तीर्यते च - शक्यते चान्यथापि - अन्येनापि प्रकारेण रचनापि कर्तुं वैदिकवचनानां, लौकिकवचनानामिव । अथोच्येत तथैव वैदिकानि वचनानि संस्थितानि, तत्कथं तेषामन्यथापि रचना कर्तुं शक्येत्यत आह- 'तहेत्यादि' ननु | लौकिकानामपि वचनानां वैदिकानामिव तथासंस्थितानां नतु नैव रचनान्यथाकर्तुं शक्यते, तत एतदपि वचनमात्रमेव, तथा दुर्भणत्वमपि लौकिकशब्दानां वैदिकानामिव ऋप्रभृतीनां दृश्यते, ततो रचनादिविशेषकृतोऽपि (न) विशेष इति यत्किंचिदेतत् ॥ १२५१ ॥ उपसंहरति
तम्हा कहंचि णिच्चो पुरिसपणीतो य आगमो जुत्तो । वण्णाणमतिंदियसत्तिजाणगो कोइ पुरिसो य ॥ १२५२ ॥
“तस्मात्कथंचिन्नित्यः पुरुषप्रणीतश्चागमोऽभ्युपगन्तुं युक्तः । तथा वर्णानामतीन्द्रियशक्तिज्ञायकः कोऽपि पुरुषश्चाभ्युपगन्तुं युक्तोऽन्यथाऽनेकदोषप्रसङ्गात् ॥ १२५२ ॥ तमेवानेकदोषप्रसङ्गं दर्शयतिवावाराभावम्मि अण्णहा खम्मि चेव उवलद्धी ।
पाव वेदस्स सदा तहेव अत्थापरिणाणं ॥ १२५३ ॥
अन्यथा - पुरुषप्रणीतत्वानभ्युपगमे नुः - पुरुषस्य व्यापाराभावे - ताल्वोष्ठपुटपरिस्पन्दाभावे सति ख एव - नभस्येव
For Private & Personal Use Only
jainelibrary.org