________________
धर्मसंग्रहणीवृत्तिः
॥४११॥
तव मतेन द्वयोरपि-लौकिकवैदिकशब्दयोस्तथाभ्युपगमात्, ततो द्वयोरप्यविशेषेण नित्यता (ऽनित्यता) वा युक्ता नतु विभागत इति ॥ १२४९ ॥ अत्र परस्य मतमाशङ्कमान आह
रयणादिविसेसकतो अह तु विसेसो ण जुत्तमेयं पि ।
सवगयादिजुयाणं रयणादिविसेसविरहाओ ॥ १२५० ॥ अथ मन्येथाः-लौकिकवैदिकशब्दानांरचनादिकृतो विशेषस्तथाहि-यादृशी वैदिकवर्णाना कतुमशक्या रचना न तादृशी लौकिकशब्दानामादिशब्दात् दुर्भणत्वादिपरिग्रहः । अत्राह-न युक्तमेतदपि पूर्वोक्तम् । कुत इत्याह-सवे-18 त्यादि' भावप्रधानत्वात् निर्देशस्य सर्वगतत्वेन नित्यत्वेन च युतानां रचनादिविशेषविरहात्-रचनादिविशेषासंभवात् । क्रमविशेषेण हि वर्णानां स्थापना रचना, वर्णाश्च सर्वगतत्वादिधर्मोपेतास्तथाभ्युपगमात्, तत्कथमेषां क्रमेण स्थापनासंभवः?, तथा एकान्तनित्यखभावतया तेषां खभावापगमासंभवात् , कथं पूर्वमभण्यमानस्य सतो भण्यमानतासंभवो, येन दुर्भणत्वमभ्युपपद्यतेति ॥ १२५० ॥ अन्यच्च
तीरइ य अन्नहा वि हु काउं रयणा वि लोगिगाणं व । वेदवयणाण तहसंठियाण णतु लोगिगाणं पि ॥ १२५१ ॥
॥४१॥
Jain Education International
For Private Personal use only
www.jainelibrary.org