________________
Jain Education In
य एव लौकिकानां पदानामर्थः स एव तेषामपि वैदिकानाम्, 'ता' तस्मात्तदनुसारतो - लौकिक पदार्थानुसार तो ज्ञायते वैदिकानामपि पदानामर्थ इति न कश्चिद्दोषः । अत्राह - ' इत्थं पि णो माणमिति' अत्रापि य एव लौकिकानां पदानामर्थः स एव वैदिकानामपि पदानामित्यस्यामपि कल्पनायां न मानं प्रमाणं संशयानिवृत्तेः । तथाहियथा शब्दरूपत्वाविशेषेऽपि एके पौरुषेया अपरे चापौरुषेयाः शब्दा इति स्वरूपभेदस्तथार्थभेदोऽपि संभाव्यत एवेति ॥ १२४८ ॥ अपिच
तुलत्थयाऍ किं वा इमे अणिच्चा तओ य णिच्चो त्ति ? । गणिचवण्णा य कारणं तुह दुवेहं पि ॥ १२४९ ॥
तुल्यार्थतायां सत्यां किंवा - कस्माद्वा कारणाद् वाशब्दो दूषणान्तरसमुच्चये इमे - लौकिकाः शब्दा अनित्याः, 'तओत्तिसको वेदो नित्य इति कल्प्यते ?, निबन्धनाभावान्नैवैतत्कल्पनं समीचीनमिति भावः । अथोच्येत - वेदगतवर्णानां नित्यत्वात्स नित्यो नत्वितरे इति । तदप्ययुक्तम्, यत आह- 'सवेत्यादि' सर्वगताश्च नित्याश्च ते वर्णाश्च ते कारणं १ ०र्थे भेदोऽपि - कपुस्तके |
For Private & Personal Use Only
Wainelibrary.org